पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
शिवस्तुतिः।


विहाय कमलालयाविलसितानि विद्युन्नटी-
विडम्बनपटूनि मे विहरणं विधत्तां मनः ।
कपर्दिनि कुमुद्वतीरमणखण्डचूडामणौ
कटीतटपटीभवत्करटिचर्मणि ब्रह्मणि ॥ ४॥

भवद्भवनदेहलीविकटतुण्डदण्डाहति-
त्रुटन्मुकुटकोटिभिर्मघवदादिभिर्भूयते ।
व्रजेम भवदन्तिकं प्रकृतिमेत्य पैशाचिकीं
किमित्यमरसंपदः प्रमथनाथ नाथाम हे ॥ ५॥

त्वदर्चनपरायणप्रमथकन्यकालुण्ठित.
प्रसूनसफलद्रुमं कमपि शैलमाशास्महे ।
अलं तटवितर्दिकाशयितसिद्धसीमन्तिनी-
प्रकीर्णसुमनोरमनोरमनमेरुणा मेरुणा ॥ ६ ॥

न जातु हर यातु मे विषयदुर्विलासं मनो
मनोभवकथास्तु मे न च मनोरथातिथ्यभूः ।
स्फुरसुरतरङ्गिणीतटकुटीरकोटौ वस-
न्नये शिव दिवानिशं तव भवानि पूजापरः ॥ ७॥

विभूषणसुरापयाशुचितरालवालावली-
वलद्बहलसीकरप्रकरसेकसंवर्धिता।
महेश्वरसुरदुमकुरितसज्जटामञ्जरी
नमज्जनफलपदा मम न हन्त भूयादियम् ॥ ८॥


१. अयं श्लोकः श्रीमदप्पयधीक्षितः कुवलयानन्देऽनुज्ञालंकारोदाहरण उदाहतः, तत्र च पूर्वार्धोतरार्थयोर्व्यत्ययः. व्याख्यातक्षेत्थं कुवलयानन्दटीकायां चन्द्रिकायाम्--व्र जेमेति । हे प्रमथनाथ हर, पैशाचिकीं पिशाचसंबन्धिनीं प्रकृतिं पिशाचतामेत्य प्राप्य भवतोऽन्तिकं समीपदेशं मजेम । समरसंपदः क्रिमिति प्रार्थयामहे । यतो मववादिभिरि- न्द्रप्रमुखैरपि भवद्भवनदेहलीषु विकटतुण्डस्य वक्रतुण्डस्य दण्डाघातैः स्फुटम्भुकुटाप्रैर्भूयत इत्यर्थः ॥ . २. 'छायावृक्षो नमेरुः स्यादिति शब्दार्णवः' इति मेघदूतटिकायां मल्लिनाथ्ः, ममेरुः सुरपुनागवृक्षो रुद्राक्षवृक्षस्च' इति शब्दार्थचिन्तामणिः, ३=’भव;इति द्वितीयापुस्तक- पाठः ४. तदिह किं भूयामहे' इति द्वितीय पुस्तकपाठः