पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला।


बहिर्विषयसंगतिप्रतिनिवर्तिताक्षावलेः
समाधिकलितात्मनः पशुपतेरशेषात्मनः ।
शिरःसुरसरित्तटीकुटिलकल्पकल्पद्रुमं
निशाकरकलामहं वटुविमृष्यमाणां भजे ॥ ९॥

त्वदीयसुरवाहिनीविमलवारिधारावल-
ज्जटागहनगाहिनी मतिरियं ममाक्रामतु ।
उपोत्तमसरित्तटीविटपिताटवीप्रोल्लस-
त्तपस्विपरिषत्तुलाममलमल्लिकाम प्रभो ॥ १० ॥

इति श्रीलादेश्वरविरचिता शिवस्तुतिः समाप्ता ।


महाकविश्रीकालिदासकृतं

श्यामलादण्डकम् ।

माणिक्यवीणामुपलालयन्तीं मदालसां मञ्जुलवाग्विलासाम् ।
माहेन्द्रनीलोपलकोमलाङ्गीं मातङ्गकन्यां सततं स्मरामि ॥



१. 'वसुविमृष्यमाणम्'इतिद्वितीयपुस्तकपाठः,२. अष्टमनवमदशमलोका: किंचिदस्फुटा एव सन्तीति विचारयन्तु विद्वांसः. ३. कालिदासस्य समयादिकमद्यापि न निश्चयेन वक्तुं शक्यते. आरोहकभगदत्तजहणसंग्रहीतसूक्तिमुक्तावली-हरिकविसंगृहीतसुभाषितद्वारावस्यो राजशेखरनाम्ना समुद्धृतात् । एकोऽपि जीयते हन्त कालिदासो न केनचित् ।शङ्गारे ललि. तोद्वारे कालिदासत्रयी किमु’ ॥ इत्यस्मात्पद्यज्ज्ञायते यद्राजशेखरात्पूर्वं त्रयः कालिदासाः समुत्पन्नाः वे च कस्सिन्कस्सिन्देशे काले च प्रादुरभूवन्निति न ज्ञायवे. अकबरीय- कालिदासस्तु चतुर्थोऽर्वाचीनः राजशेखरख खिस्तसंवारस्य दशमे शतके समुत्पन्न इति पण्डितवर-रामकृष्ण गोपाल-भाण्डारकरनिर्णयः. ४. मातङ्गीदेवीस्तुतिरूपोऽयं मन्यः अस्मिन्दण्डके सर्वत्र पादप्रारम्भे नगणद्वयम्, तदनन्तर चानियतसंख्या रगणाः तस्मा- न्मत्तमातङ्गलीलाकर इति नामास्य दण्डकस्य. तलक्षणं -'यत्र रेफान्कविः स्वे-. च्छया पाठसौकर्यसापेक्षया रोपयत्येष धीरैः स्मृतो दण्डको मतमातङ्गीलाकरः’ अस्मिन्दण्डके पादपञ्चकं दृश्यते तल्लेखकादिदोषसमुद्भूतम्. अन्यथा पादचतुष्टय- मेवापेक्षितम् चण्डवृष्टिप्रपातादिषु तु पादप्रारम्ने नगणद्वयम्, तदनन्तरं सप्ताष्टादिका नियता रगणा भवन्ति. अत्र त्वनियता इति भेदः,