पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३१
औचित्यविचारचर्चा


अत्र सकलजनामिमतभोगसुखवित्तादीनां भयमयतया हेयतां प्रति- पाद्य वैराग्यमेव सकलभयायासशमनमुपादेयतया यदुपन्यस्तं तेन शा- तरसस्य निरर्गलमार्गावतरणमुचिततरमुपदिष्टं भवति ॥ यथा वा मम मुनिमतमीमांसायाम्-

'कुसुमशयनं पाषाणो वा प्रियं भवनं वनं
प्रतनु मसृणस्पर्शं वासस्त्वगप्यथ तारवी।
सरसमशनं कुल्माषो वा धनानि तृणानि वा
शमसुखसुधापानक्षैब्ये समं हि महात्मनाम् ॥'

अत्र सकलविकल्पतल्परहिभेदावमासमानात्मतत्त्वविश्रान्तिजनितस- साम्यसमुल्लसितशमसुखपीयूषपानोदितनित्यानन्दपूर्णमानमानसानां प्रिया- प्रियसुखदुःखादिषु महतां सदृशी प्रतिपत्तिरिति जीवन्मुक्तिसमुचित- मभिहितम् ॥ न तु यथा [१]श्रीमदुत्पलराजस्य--

'अहो वा हारे वा बलवति रिपो वा सुहृदि वा
मणौ वा लोष्टे वा कुसुमशयने वा दृषदि वा ।
तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः
क्वचित्पुण्यारण्ये शिवशिवशिवेति प्रलपतः ॥'

अत्र जीवन्मुक्तोचितं प्रियाप्रियरागद्वेषोपशमलक्षणमोक्षक्षम सर्वसा-. म्यमहिहारसुहृदरिसमदृष्टिरूपमभिदधता कचित्पुण्यारण्ये यदभिहितं- तद्विकल्पप्रतिपादकमभेदवासनाविरुद्धमनुचितमवभासते। धाराविरूढसर्व- साम्यविगलितभेदाभिमानग्रन्थेर्हि सर्वत्र सर्व शिवमयं पश्यतस्तपोवने- नगरावस्करकूटे च विमलामलाभतृप्ततया समानदृशः कचित्पुण्यारण्यादि- वचनमनुचितोच्चारणमेव ॥

यथा मधुरतिक्ताद्या रसाः कुशलयोजिताः।
विचित्रास्वादतां यान्ति शृङ्गाराधास्तथा मिथः ॥ १७ ॥



१. अभिनवगुप्ताचार्यस्य परमगुरुः प्रत्यभिज्ञासूत्राद्यनेकग्रनथकर्ता श्रीमदुत्पलराजः
खृस्तवसंवत्सरीयदशमशतकस्य पूर्वाध एवं कश्मीरदेश आसीत्॥