पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३२
काव्यमाला।

तेषां परस्पराश्लेषात्कुर्यादौचित्यरक्षणम् ।
अनौचित्येन संस्पृष्टः कस्बेष्टो रससंकरः ॥१८॥

रसाः कटुकमधुराम्ललवणाद्याः कुशलसूदेन वेसवारपानादिषु योजिता विचित्राखादतामुपयान्ति तथैव परस्परमविरुद्धाः श्रुङ्गारादय इति । तेषा- मन्योन्यमङ्गाङ्गिभावयोजनायामौचित्यस्य जीवितसर्वस्वभूतस्य रक्षां कुर्यात् । अनौचित्यरजसा रससंयोगः स्पृष्टो न कस्यचिदभिमत इत्यर्थः ॥ रससंकरौचित्ये शान्तशृङ्गारयोरङ्गाङ्गिभावो मथा भगवतो महर्षे- व्यासस्य-

'सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः ।
किं तु मताङ्गेनापाङ्गभङ्गिलोलं हि जीवितम् ॥

अन भगवता जन्तुहिताभिनिविष्टेन मोक्षक्षभोपदेशेऽङ्गिनः शान्तर- सस्य रागिजनानिष्टत्वात्सकलजनमनःप्रहादने बालगुडजिहिकया श्रू- ङ्गारेऽङ्गभावमुपनीते पर्यन्ते शान्तसैव लोलं जीवितमित्यनित्यताप्रतिपाद- नपरिनिर्वाहेण परममौचित्यमुच्चैः कृतम् ॥ बीभत्सशृङ्गारयोरङ्गाङ्गिभावो यथा मम बौद्धावदानकसxxलतायाम्---

"क्षीबस्येवाचलस्य द्रुतहतहृदया जम्बुकी कण्ठसक्ता
रक्ताभिव्यक्तकामा कमपि नखमुखोल्लेखमासूत्रयन्ती ।
आखाद्यस्वध्य यूनः क्षणमपरदलं ददन्तव्रणाग्कं
लग्नानङ्गक्रियायामियमतिरमसोत्कर्षमाविष्करोति ।'

अत्र श्लेषोपमया · तुल्यकक्षाधिरूढयोरपि परस्परविरुदयोरर्थयोर्बी- भत्सशृङ्गाराङ्गाङ्गिमावयोजनायां जम्बुकी तरुणशवस्य क्षीबस्येव निक्ष- लस्थितेः सहसैव हृतहृदयपमा कृष्टचिता वा, कण्ठे लग्ना शोणिते भृशा- मभिव्यक्तस्पृहा रक्ताभिव्यक्तकामा वा, नखोल्लेखमासूत्रयन्ती दत्तदन्तव्र-- णमघरमास्वाद्याङ्गच्छेदक्रियायामनङ्गभोगक्रियायां वा, लगना गा - त्राणामूर्ध्वगतं कर्षणं रतकौशलोत्कर्षं वा, प्रकाशयतीति समानयोर्बीभ- त्सश्रृङ्गारयोः कामिनीपदपरित्यागेन केवलं जम्भुक्या कर्तुत्वेन बीभत्स-