पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२४
काव्यमाला।


अत्राप्यानन्दिसुधावस्यन्दसुन्दरस्येन्दोश्चिताचक्रत्वमनुचिततया कर्णकटु- कमातङ्कमिवातनोति । योऽर्थस्तु हृदयसंवादी स यद्यनौचित्यस्पर्शलेश- रहितस्तदधिकतरामलंकारशोभां पुष्णाति ।। यथा [१]कार्पटिकस्य---

'शीतेनोद्धृषितस्य भाषशिमिवञ्चिन्तार्णवे मज्जतः
शान्ताग्निं स्फुटिताधरस्य धमतः क्षुत्क्षामकण्ठस्य मे ।
निद्रा क्वापि विमानितेव दयिता संत्यज्य दूरं गता
सत्पात्रप्रतिपादितेव वसुधा नक्षीयते शर्वरी।"

अत्रानौचित्यस्पर्शपरिहारेण केवलं हृदयसंवादसौन्दर्यमेव स्वादुता- मादधाति ॥ रसौचित्य दर्शयितुमाह-

कुर्वन्साशये व्याप्तिमौचित्यरुचिरो रसः।
मधुमास इवाशोकं करोत्यङ्कुरितं मनः ॥ १६ ॥

औचित्येन भ्राजिष्णुः शृङ्गारादिलक्षणो रसः सकलजनहृदयव्यापी वसन्त इवाशोकतरुमङ्कुरितं मनः करोति ।। यथा श्रीहर्षस्य-

"उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणा-
दायासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः ।
अद्योधानलतामिमां समदनां नारीमिवायान्यां ध्रुवं
पश्यन्कोपविपाटलद्युति मुर्खं देव्याः करिष्याम्यहम् ॥'

अत्रेर्ष्याविप्रलम्भरूपस्य शृङ्गाररसस्य वासवदत्तायामवेक्ष्यमाणस्य नवमालिकालताया ललितवनितातुल्यतया विरहावस्यारोपणेन नितरामौ- चित्यरुचिरचमत्कारकारिणी दीतिरुपपादिता ॥ यथा वा कालिदासस्य--

'बालेन्दुवक्राण्यविकासमाषाह्वभुः पलशान्यतिलोहितानि ।
सद्यौ वसन्तेन समागतानां नखक्षतानीव बनस्वलीनाम् ।।




१. राजतरहिण्याम् (३।१८१) अयं श्लोको भतृगुप्तस्य.