पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२५
औचित्यविचारचर्चा


अत्र पार्वत्यां परमेश्वरस्याभिलाषशृङ्गारे वक्ष्यमाणे प्रथममुद्दीपनवि- भावभूतस्य वसन्तस्य वर्णनायां कामुकाध्यारोपेण वनस्थलीललनानां कुटिल- लोहितपलाशकालिकाभिर्नवसंगमयोग्यनखक्षतान्युप्रेक्षितानि परमामौचित्य- चारुतां प्रतिपादयन्ति । न तु यथास्यैव-

'वर्णप्रकर्षे सति कर्णिकारं दुनोति निर्गन्धतया स चेतः ।
प्रायेण सामग्र्यविधौ गुणानां पराङ्मुखी विश्वसृजः प्रवृत्तिः ।।

-

अत्र केवलकर्णिकारकुसुमवर्णनमात्रेण विधातृवाच्यतागर्भेणैव प्रस्तुत- शृङ्गारानुपयोगिना तदुद्दीपनविभावोचितं न किंचिदभिहितम् ॥ हास्यरसे यथा मम लावण्यवतीनाम्नि काव्ये--

'सीधुस्पर्शभयान्न चुम्बसि मुखं किं नासिकां गृहसे
रे रेश्रोत्रियतां तनोषि विषमां मन्दोऽसि वेश्यां विना ।
इत्युक्त्वा मदघूर्णमाननयना वासन्तिका मालती
लीनस्यात्रिवसोः करोति बकुलस्वेवासवासेचनम् ॥

अत्र श्रोत्रियस्यात्रिवसोरपवित्रसीधुस्पर्शशङ्कासंकोचनिलीनस्य शुष्क- बकुलवृक्षस्येव सरसतापादनाय वेशविलासिन्या यदासवासेचनं तदङ्गभूत- शृङ्गाररसाभासस्पर्शेन हास्यरसस्य वरासवस्येव सहकाररसवेधेन सचमत्कार- मौचित्यमाचिनोति ॥ यथा वा मम लावण्यवत्यामेव-

'मार्गे केतकसूचिभिन्नचरणा सीत्कारिणी केरली
रम्यं रम्यमहो पुनः कुरु विटेनेत्यर्थिता सस्मिता ।
कान्ता दन्तचतुष्कबिम्बतशशिज्योत्स्नापटेन क्षणं
धूर्तालोकनलजितेव तनुते मन्ये मुखाच्छादनम् ॥

अत्रापि हास्यरसस्य कुटिलविटनर्मोक्तिवचनौचित्येन शृङ्गाररसाभासा- धिवासितस्य सचमत्कारः परः परिपोषः समुन्मिषति ॥

न तु यथा श्यामलस्य----

'चुम्बनसक्तः सोऽस्या दशनं च्युतमूलमात्मनो वदनात् ।
जिल्हामूलप्राप्तं खाडिति कृत्वा निरष्ठीवत् ॥'.