पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२६
औचित्यविचारचर्चा

यथा श्रीहर्षस्य-

'विश्रान्तविग्रहकथो रतिमाञ्जनस्य
चित्ते वसन्प्रियवसन्तक एव साक्षात् ।
पर्युत्सुको निजमहोत्सवदर्शनाय
वत्सेश्वरः कुसुमचाप इवाभ्युपैति ॥'

अत्र वत्सेश्वरस्य कुसुमचापेनोपमा शृङ्गारावसरसरसचारुतरतामौचि- त्येन कामपि चेतश्चमत्कारिणीमाविष्करोति ॥ न तु यथा चन्दकस्य-

'खगो त्क्षिप्तैरन्त्रैस्तरुशिरसि दोलेब रचिता
शिवा तृप्ताहारा स्वपिति रतिखिन्नेव वनिता ।
तृषार्तो गोमायुः सरुधिरमसिं लेढि बहुशो
बिलान्वेपी सर्पो हतगजकराग्रं प्रविशति ॥

अत्रानुचितस्थानस्थितायाः पुरुषपिशिततृप्तसुप्तायाः शिवायाः सुरतके- लिक्लान्तकान्तया विच्छायैवोपमा परं वैपरीत्यं प्रकाशयति ।।

यथा वा [१]मालवरुद्रस्य----

'अभिनववधूरोषस्वादः करीषतनूनपा- दसरलज्जनाश्लेषकूरस्तुषारसमीरणः । गलितविभवस्याज्ञेवाद्य द्युतिर्मसृणा रवे- र्विरहिवनितावक्त्रौपम्यं बिमर्ति निशाकरः ॥’ </poem> अत्र कोमलकामिनीकोपेन करीषकशानोः साहश्यं शीतसमयखा- दुतया हृदयसंवादसुन्दरमप्यनुचितत्वेन सहसैव चेतसः संकोचमिवादधाति । यथा वा राजशेखरस्य- <poem> 'चिताचक्र चन्द्रः कुसुमधनुषो दग्धवपुषः कलङ्कस्तत्रत्यः स्पृशति मलिनाङ्गारकलनाम् । यदेतत्सज्योतिर्दरदलितकर्पूरघवलं मरुद्भिर्भस्मैतत्प्रसरति विकीर्णं दिशि दिशि ॥'


१.सुभाषितहारावलावयं श्लोको भासकवेः.