पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
centerकाव्यमाला ।
 


नंतु यथा [१]चन्द्रकस्य-

'युद्धेषु भाग्यचपलेषु न मे प्रतिज्ञा
दैवं नियच्छति जयं च पराजयं च ।
एषैव मे रणगतस्य सदा प्रतिज्ञा
पश्यन्ति यन्न रिपवो जघनं हयानाम् ।

अत्र क्षत्रवृत्तिरिवौजसा काव्यगुणेनास्पृष्टा सुभटोक्तिरुचितार्थापि ते- जोजीवितविरहिता दुर्गतगृहदीपशिखेव मन्दायमाना न विद्योतते ॥ यथा वा राजशेखरस्य-

'एतस्याः स्मरसंज्वरः करतलस्पर्शैः परीक्ष्यो न यः
स्निग्धेनापि जनेन दाहभयतः प्रस्थंपचः पाथसाम् ।
निर्वीर्थीकृतचन्दनौषधविधौ तस्मिंस्तडकारिणों
लाजस्फोटममी स्फुटन्ति मणयः सर्वेऽपि हारस्रजाम् ॥

अत्र विरहविधुररमणीमनोभवावस्थानुरूपं माधुर्यमुत्सृज्य तडत्कारिणो लाजस्फोटं स्फुटन्ती त्योजःस्फूर्जितोर्जितस्वभावाधिवासिता सूक्तिर्लीवण्य- पेशलतनुर्ललितललनेव परुषभाषिणी झटित्यनौचित्यं चेतसि संचारयति ।। अलंकारौचित्यं दर्शयितुमाह----

अर्थौचित्यवता सूक्तिरलंकारेण शोभते ।
पीनस्तनस्थितेनेव हारेण हरिणेक्षणा ॥१५॥

प्रस्तुतार्थस्यौचित्येनोपमोर्प्रेक्षारूपकादिनालंकारेण सूक्तिश्चकास्ति का- मिनीवोच्चकुचंचुम्बिना रुचिरमुक्ताकलापेन ॥



़ १. अयं चन्द्रककविः कश्मीरदेशे तु‘ञ्जीनस्य राज्यकाले बभूव। 'नाट्यं सर्वजनप्रेक्ष्यं
यश्चक्रे स महाकविः । द्वैपायनमुनेरंशस्तत्काले चन्द्रकोऽभवत् ॥' इति राजतरङ्गिणी
(२ । १६). तुञ्जीनश्च ख्रिस्तसंवत्सरप्रारम्भात् १०३ मितवर्षपूर्ण राज्यसिंहासनमारो-
. हेति बहूनां मतम्, कनिङ्गह्यममते तु ३१९ मिते ख्रिस्तसंवत्सरे तुज्जीनो राज्यसिंहास-
नमारूढः मन बहूनां मतमेर प्राह्यम्.. </poem>