पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११३
वक्रोक्तिपञ्चाशिका ।

नोक्तिमज्जनकाश्रया तव भवेत्किं मन्जनेनात्र में
शंसन्नित्यजितोऽद्रिराजतनयां नेयाद्विषो वः क्षयम् ॥ ४३ ॥

कुजराजिनं कुञ्जरस्याजिनं कुञ्जराजिनं गजचर्म, कुञ्जेन लतादिपिहितोदरेण शोमिनं च । एतदेवाह-कुञ्जे राजितं शैलमस्य दूरीकुरु । 'असु क्षेपणे'। परंतु हे सुभ्रूः, तव पिता पर्वत एव । विस्त्रं दुर्गन्धि । मज्जनको मम जनकः पिता, मज्जनं च स्नानम् ॥

  
स्पष्टाखण्डलयज्ञया विजयया नृत्ये ममोच्चावचं
गीतं सुन्दरि तन्यते सुरपतेयोगो मखस्यात्र कः ।
कस्येष्टा सवसंकथा स्फुटमसौ यः पानशौण्डो नरः
सूक्त्या खण्डितपार्वतीवचन इत्यव्याद्वृषाङ्को जगत् ।। ४४ ॥

स्पष्टाखण्डलयज्ञया । 'लयः साम्यम्' इत्यमरः । स्पष्टाऽखण्डलयज्ञा, परन्त्र स्पष्ट आ- खण्डलयज्ञ इन्द्रयज्ञो यस्याः । उच्चावचं नानाविधम् । सवो यज्ञः संहितया आसवः पानं च । पाने शौण्डो व्यसनी ॥

  
धत्ते चन्द्रकलाञ्छितस्तव जटाजूटः श्रियं हारिणी
बर्हेणैष न लाञ्छितो न च रुचिं मार्गी बिभर्ति क्वचित् ।
उक्तिस्ते विषमा तनोति मनसः क्षोमं ममोक्तिः कथं
क्ष्वेडं ते तनुयादुमामिति जयन्सूक्त्या हरो वोऽवतात् ॥ १५ ॥

चन्द्रकलाञ्छितश्चन्द्रकलयाञ्छित आकृष्टः । परन चन्द्रकेण च बर्हेण लाञ्छितश्चि- हितः । हरतीति हारिणी ताम्, हरिणसंबन्धिनीं च । विषमा क्रूरा, तनोति कुरुते, विषं चातनोति । क्षोभमित्यत्र चार्थो बोद्धव्यः । उत्तरे क्षोभ एव दुर्जरत्वाद्विषम् ॥

  
शक्ता वक्तुमिहोचरं न खलु ते तद्दक्षिणामाश्रयः
किंचिन्मे वद सर्वदस्य भवतः का दक्षिणा लभ्यते ।
संजाता सततं त्वमेव सरला नाहं लता तारखी
स्मेरः शंभुरिति श्रियं दिशतु वः शैलात्मजानिर्जितः ॥ ४६॥

उत्तर प्रतिवाक्यम् , उत्तरदिक्स्थं च । दक्षिणानुकूला, अपसव्या व, यज्ञादौ पात्रेषु देया च । सरला शुद्धा, देवदारुलता च ॥

  
सुभ्रूः संप्रति मे न कापि दयिता त्वचो ममायं ग्रहः
प्राप्ता ते शठ मेनका दयिततां नाकाङ्गनापाश्रया ।
नोक्तिम गगनाजिराश्रयवती कस्योक्तिरित्यस्तु वः
सूक्त्या निर्जितशैलजानूजुवचाः शीलांशुमौलिः श्रिये ॥४७॥