पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
right
काव्यमाला ।


मेनका इति मे न का इति पदत्रयम् । मे मम न कापि सुभ्रूर्वराङ्गना दयिता प्रिया, मेनकानामाप्सराः । अझना नारी, आxxनं चाजिरम् ॥

  
कर्ता शूलपराजितां रिपुचमूमेकस्त्वमेवोद्धतां
नो शीघ्रं तृणमण्डितारिपृतना केनापि काचित्कृता ।
वक्तुं ते कुशला कया तव गिरा स्यां दुःशलाका न वा-
गस्तीशो वचसाद्रिजामिति जयन्निष्टं विधासीष्ट वः ॥ ४८ ॥
<poem>
शूलपराजितां शूलेन त्रिशूलेन पराजिताम् , उत्तरत्राशु शीघ्रमुलपेन गुणविशेषेण
राजितां शोभमानाम् । कुशला निपुणा कया गिरा स्थामहम् , उत्तरत्र कसितया शला.
कया सूच्या। विधासीष्ट क्रियात् ॥
<poem>
दृष्टिस्ते न कृशानुतापरहिता सत्यं न तन्वी स्तुता
सुभ्ररन्यहिता च मे मतिरपि प्रज्ञोच्यते नो मया ।
ख्यात्वैव त्वमुमात्मनास्यभिहितं करसादपद्ध्ययते
मुष्णीतादधमद्रि जामभिभवन्सूक्त्या कपर्दीति कः ॥ ४९ ॥

कृशानुतापरहिता कृशानोर ग्रेस्तापस्तेन रहिता । अपरत्र कृशा तन्वी, मुता स्तुता , परहितान्यानुकूला। नोमया, नो, मयेति नो निषेधे, न उमया इति ॥

वकोक्त्या बदसत्कृतोऽसि भगवस्तत्क्षम्यतां मेऽधुना
कस्माद्भौमगिरा न खेदितमना नोक्तः कुपुत्रो मया ।
स्वार्तिकं सुन्दरि कुत्सितेन तनयेनोक्तेन जित्वेत्युमां
स्ताद्वस्तत्परिरम्मसान्द्रपुलका शंभुः शिवप्राप्तये ॥ ५० ॥
<poem>
वक्रोक्तिर्वक्रा कुटिला चासाबुक्तिः कुटिला गी:, उत्तरत्र वस्य भौमस्योक्तिर्वाक्च।
कुपुत्र इति कु: भूमिस्तस्याः पुत्रः कुपुत्रो भौमः, कुत्सितः पुत्रस्तनयस्य । परिरम्भ
आश्लेषस्तेन सान्द्राणि पुलकानि रोमाया यस्य ।
<poem>
कोक्तिपञ्चाशतिमित्यमेनां यो भावयेन्मत्सररिक्तबुद्धिः ।
स्पष्टोत्तरासूक्तिषु काव्यबन्धे भवेत्स रखाकरवत् प्रवीणः ॥ ५१ ।।

भावयेद्विचारयेत् । स्पष्टोत्तराखिति स्पटमुतर यासु ताशीपूक्तिषु वक्रोक्तिषु काव्यबन्धे सुभाषितविषये रत्नाकरः कविवरो हरविजयकारत्तद्वत्प्रवीण: कुशलः स्यात् ।।

सूनुरानन्ददेवस्य रणभूयोम्नि भाखतः।
वक्रोक्तिवर्णने रात्ने टिप्पणं वल्लभो व्यधात् ।

इलमात्यवरानन्ददेवसूनुधिशुपालवधानेककाम्पटीकाकर्तृश्रीवल्लभदेवकृतयाटिप्पण्या-
समेता श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याविपत्यपरनाम्नो हरविजय-
महाकाव्यकर्तुः कश्मीरदेशोद्भवराजानकश्रीरत्नाकरमाहाकवेः
कृतिर्वक्रोक्तिपञ्चाधिका समाप्ता ॥