पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११२
काव्यमाला।

किं नद्याश्रयमेतदन वचनं धामाश्रयेकि वचो
दिश्या्द्वः शितिकण्ठ इत्यगभुवि स्पष्टोत्तरोक्तिः श्रियम् ॥ ३९ ॥

हलं अस्थि, सीरै च । वितस्तार विरातान ते तव, अपरत्र वितास्तायां [कश्मीरदे- . शप्रसिद्धायां] नद्यां रतिर्यस्य तस्यामश्रणं वितस्तारस्ते ।नद्याश्रयो यस्य तन्नयाश्र्यं , अपरत्र न निषेधे दौराश्रयो यस्य स द्याश्रयः ।।

गण्डे दानवनाशिनो गणपतेः कुर्वन्ति कोलाहलं
रोलम्बा दनुसूनुनाशनविधौ सक्ताः स्युरेते कथम् ।
ब्रूयात्कः खलु दानवान्गजमुखः शंसत्यसौ पृच्छयता-
मुक्त्या साध्विति नित्यमस्तु कुशलायोमा जयन्वो विभुः ॥ ४०॥

दानवनाशिन इति दानवनं मदपुजमश्नन्तीति दानवनाशिनः । परत्रासुरक्षेपकाय। रोलम्या भ्रमराः। दानवान्दानयुक्तश्च ।।

को हि स्यादहितान्तकस्त्वदपरः सत्यं ममेवाहिना
तान्तं वीक्ष्य शिरो भवेदभिमतः किं स्यान्न चक्री श्रियः ।
वक्रोक्तो कुशलो भवानिति कुशे लोभोऽस्ति कस्येति वै
वक्रोक्त्या भवतो भवो जितभवानीकोऽभवायास्तु वः ॥४१॥

अहितानामन्तको मृत्युरहितान्तकः । अपरत्राहिना तान्तं खिन्नं कं शिरो यस्सा. हितान्तकः । एतदेवोद्दिश्याह-सत्यमेतत् । अहिना तान्तं सदेव शिरो वीक्ष्य चक्री विष्णुः श्रियो लक्ष्या अमिमतः प्रियः किं न स्यात् । अपि तु स्वादेिव । सद्वच्छिरस्पहि- सेन धारित इति यत्ततो लक्ष्म्या अभिमतो विष्णुर्जात इत्यर्थः । कुशलो भवान्निपुणस्त्वम्, कुशेषु दर्भेषु च लोभो विद्यते यस्य ।

दुर्गाहं भवतोऽवगाह्यत इदं चेतः कथं वा मया
दुर्गाहं स्फुटमस्मि गाहनविधौ वामा पुनर्नास्म्यहम् ।
नालीकाश्रयमेवदत्र वचनं बाणाश्रयं किं वचः
स्यादित्यस्तु भवच्छिदेऽद्रितनयां सूक्त्या जयन्वो विभुः ॥ ४२ ॥

दुःखेन गाहत इति दुर्गाहम् , अहं च दुर्गामिधाना । ममा कथं वा सब देतोऽवगायत इति, वामा श्री वामया खिया च, वामा कुटिला च । नालीकाश्रममलीकानयमत- स्थानं न । सत्यमेतदित्यर्थः । नालीकय शरविशेषः । भवच्छिदे जन्मोचितये ॥

मुश्वामीश्वर कुञ्जराजिनमहं ते विसगन्धाकुलं
कुञ्जै राजितमस्य शैलमिहं ते सुःभ्रः पिता पर्वतः ।