पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला।
९६

  
अश्नीत पिबत खादत जाग्रत संविशत तिष्ठत वा।
सकृदपि चिन्तयताहः सावधिको देहबन्ध इति ॥ ५४॥

किं विजितया पृथिव्या किं काञ्चनभूभृता करस्थेन ।
किं दिव्याभिः स्त्रीभिर्मर्तव्ये ब्रह्मणा लिखिते ॥ ५५ ॥

जीवति कतिचिन्निमिषान्कतिचित्तेषु श्रुतीरधीत इव ।
तावावसैवाकुलयति तद्र्याणि नवानि चातनुते ॥ ५६ ॥

खल्यो जीवनकालः स्वल्पा धीः परिचयः स्वल्पः ।
तदपि तरेम कथंचिच्छ्रुतयो यदि नोपज्जायन्ते ॥ ५७ ॥

कुत आगतं न जाने क्व नु वा गन्तव्यमिदमपि न जाने !
संचरसि केदानीं संसारपथे महातमसि ॥ ५८ ॥

तमसावृताश्वरन्तः सविधे दूरे च नावयन्त्यर्थान् ।
अवयन्ति तु विस्पष्टं तडिताभिहते शिरसि मूढाः ॥ ५९ ॥

निमिषन्त्यत्र तरुण्यस्तत्र तरुण्यो न निमिषन्ति ।
ईदृक्षो हि विशेषः स्वर्गः स्वर्ग इति किं तत्र ॥ ६० ॥

कोपो मै[१]त्रावरुणेः शापो या [२]तार्किकस्य मुनेः ।
संस्मर्यते यदि सकृच्छत्रोरपि मास्तु शक्रपदम् ॥ ६१ ॥

गच्छत्वमरावत्यां गच्छतु चतुराननस्य वा नगरे ।
पुनरागन्तव्यं यदि पुंसा किं साधितं भवति ॥ ६२ ॥

भुक्ता बहवो दारा लब्धाः पुत्राय पौत्राश्च ।
नीतं शतमप्यायुः सत्यं वद मर्तुमस्ति मनः ॥ ६३ ॥

विशेषणस्वभावान्पश्यन्विषयान्करोति को ममताम् ।
नश्यदवस्थापन का क्रीणीते धनैरवम् ॥ ६४ ॥

अन्नाभावे मृत्युः शालिभिरत्रानि शालयो वृक्ष्या ।
वृष्टिस्तपसेति वदन्नमृत्यवे ततपश्चरतु ॥ ६५ ॥

किं न निगृहन्ति मनः किं न भजन्ते जनाः शिवं शरणम् ।
अमिसंघिभेवमात्रान्मोक्षोपाये न बध्यन्ते ॥ ६६ ॥


१. अगस्त्यस्य.। २. गौतमस्य.।