पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९५
वैराग्यशतकम् ।

    
स्वपितुः परलोकाय स्वयमनुदिवसं यदाचरति ।
क्रियतामिदमुपमानं किं नालं पुत्रवैराग्ये ॥ ४१ ॥

अननुगते दारिद्र्ये किमनुगतं लक्षणं दृष्टम् ।
कामस्यापूर्तिर्यदि कृपणं जगदा चतुर्वदनात् ॥ ४२ ॥

न खलु धनत्वं जातिर्यस्य यदिष्टं तदेव तस्य धनम् ।
तत्तदिव पामराणामाकिंचन्यं धनं विदुषाम् ॥ ४३ ॥

स्वीक्रियते यदि तृष्णा स्वीकर्तव्यं जगत्समस्तमपि ।
स्वीक्रियते यदि शान्तिः स्वात्मापि स्वस्य भवति न वा ॥ ४४ ॥

यद्दातारं क्शयति यत्परिजनमस्य सान्त्वयति ।
यदपत्रपते नान्तर्भावालामः स कस्य समः ॥ ४५ ॥

प्रादेशमात्रमुदरं परिपूरयितुं कियानयं यत्नः।
चुलकेनाम्भः पातुं स्वनितव्यः किं तटाकोऽपि ॥ ४६ ॥

यामार्धमसंस्काराद्यामद्वयमनशनाञ्च सुव्यक्ते ।
शारीरे सौन्दर्येऽप्यभिनिविशन्ते कियन्मूढाः ॥ १७ ॥

वन्ध्येत्याहुस्तरुणी जरतीति परित्यजन्ति बहुपुत्राम् ।
अभिनिन्दन्त्यल्पसुतां का गृहिणी कामिनि हृद्या ॥४८॥

यान्ति शुचमकृतदारा द्वे भार्य नेति कृतदाराः ।
ते परदारा नेति स्त्रीभिस्तृप्तान्न पश्यामः ॥४९ ॥

मदनस्याज्ञाकरणे मन्ये जगदखिलमेकरूपमिदम् ।
तिर्यञ्च इति नरा इति देवा इत्यन्यतो भेदः ॥ ५० ॥

शुक्रविमोकस्थानं मलमूत्रत्यागदेशवत्किमपि ।
स्त्रिय इति विहितं विधिना कियदत्र जना निमज्जन्ति ॥ ५१ ॥

वेदानधीत्य विधिवन्मीमांसित्वा तदर्थं च ।
दाराः कर्तव्या इति केनेदं प्रहसनं कथितम् ।। ५२॥

दुःखेनोपार्ज्य॑न्ते पाल्यन्ते प्रत्यहं च लाल्यन्ते ।
वामाः स्त्रियो विमूढैरुपभुञ्जानाः सुखं विगुणम् ॥ ५३ ॥