भोगाय पामराणां योगाय विवेकिनां शरीरमिदम् ।
भोगाय च योगाय च न कल्पते दुर्विदग्धानाम् ॥ ६७ ॥
ब्राह्मणचण्डाला इत्याह मुनिर्यन्महापथिकान् ।
भवमार्गमहापथिकानधिकृत्यैव प्रवर्तितं चैतत् ॥ ६८ ॥
एकद्वाः क्षितिपतिषु द्वित्रा देवेषु पञ्चषा द्रुहिणे ।
एतावन्तो जगति ब्रह्मानन्दार्णवस्य कणाः ॥ ६९ ॥
अज्ञानेनापिहिते विज्ञाने कर्म किं कुरुते ।
विकले चक्षुषि तमसा व्यादाय मुखं किमीक्षेत ।। ७० ॥
अतिकलुषमाशुनश्वरमापातस्फुरणमनभिलाषकरम् ।
अपि हृष्यन्ति जनाः कथमवलम्ब्य ज्ञानखद्योतम् ॥ ७१ ॥
अयुतं नियुतं वापि प्रदिशन्तु प्राकृताय भोगाय ।
क्रीणन्ति न बिल्वदलैः कैवल्यं पञ्चषैर्मूढाः ॥ ७२ ॥
यावत्किल चेष्टन्ते तावत्पाशे निबध्यते ग्रन्थिः ।
निभृतं यदि वर्तन्ते कालेन संसते पाशः ॥ ७३ ॥
उपरुन्धन्ति श्वासान्मुनयो नाश्नन्ति न पिबन्ति ।
स्तूयन्ते सुजनैः किं कण्ठे कुर्वन्ति कनकपाशमिमे ॥ ७४ ॥
कामं जनाः संयन्ते कैलासविलासवर्णनावसरे ।
साधनकथनावसरे साचीकुर्वन्ति वक्राणि ॥ ७५ ॥
चङ्गाः कथमङ्गाः कथमित्यनुयुङ्क्ते वृथा देशान् ।
कीदृक्कृतान्तपुरमिति कोऽपि न जिज्ञासते लोकः ॥ ७६ ॥
त्यक्तव्यो ममकारस्त्यक्तुं यदि शक्यते नासौ ।
कर्तव्यो ममकारः किं तु स सर्वत्र कर्तव्यः ॥ ७७ ॥
पुत्रा इति दारा इति पोष्यान्मूखो जनान्ब्रूते ।
अन्धे तमसि निमज्जन्नात्मा पोष्य इति नावैति ॥ ७८ ॥
यञ्चिन्तितमधिगर्भं यश्च चिरं चिन्तितं नरके ।
विषयानिलसंसर्गान्ममृजे तत्सर्वमेकपदे ॥ ७९ ॥
पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१०४
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
९७
वैराग्यशतकम् ।
