पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९३
वैराग्यशतकम् ।

कामिजनपरमभोग्ये कामसुखे धारयन्ति बीभत्सम् ।
सन्तः शमसुखरसिकाः सुधाशनाः सूकरान्न इव ॥ १६ ॥

विक्षेपमात्राभाजो विकासकाष्ठागतज्ञानाः ।
स्वस्यापि चेष्टितानि स्वयमीक्षन्ते परस्येव ॥ १७ ॥

अस्थानेऽभिनिविष्टान्मूर्खानस्थान एव संतुष्टान् ।
अनुवर्तन्ते धीराः पितर इव क्रीडतो बालान् ॥ १८ ॥

पुष्णति पुरुषे सलिलैर्मुप्णति पुष्पं फलं च तरव इव ।
वर्तन्ते सन्तः सममुपकर्तरि चापकर्तरि च ॥ १९ ॥

नित्यानित्यविवेकः सर्वेषां घटघटत्वयोरास्ते।
स विवेको यः शान्तिकृदविवेकोऽन्यः समस्तोऽपि ॥ २० ॥

अनधिगते कामसुखे कालेन यथा प्रवर्तते तरुणः ।
एवं ब्रह्मसुखेऽपि प्रवर्तते कोऽपि भाग्यवशात् ॥ २१ ॥

पुत्रगुणाः स्वातत्र्ये दारगुणाश्चा[१]धिवेदनावसरे ।
भ्रातृगुणा [२]दायविधौ द्रष्टव्या मोक्ष्यमाणेन ॥ २२ ॥

का मे गतिरिति पृच्छति चरमश्वासेऽपि यः स्वार्थम् ।
तस्य जनस्यापि कृते पापाः पापानि कुर्वन्ति ॥ २३ ॥

पितृभिः कलहायन्ते पुत्रानध्यापयन्ति पितृभक्तिम् ।
परदारानुपयन्तः पठन्ति शास्त्राणि दारेषु ॥ २४ ॥

शान्तिरलभ्यादुपरतिरपात्रभावः प्रतिग्रहनिवृत्तिः ।
क्षान्तिर्दुर्बलतेति च निवृत्तिधर्माः कलावते ॥ २५ ॥

नीतिज्ञा नियतिज्ञा वेदज्ञा अपि भवन्ति शास्त्रज्ञाः ।
ब्रह्मज्ञा अपि लभ्याः स्वाज्ञानज्ञानिनो विरलाः ॥ २६ ॥

कलिकलुषे मनसि स्वे कथमिव जगदार्जवं लभते ।
चक्षुर्दोषे जाग्रति चन्द्रद्वित्वं कुतो यातु ॥ २७ ॥



१. तस्याः सपत्नीसंपादनावसरे, विवाहान्तरकरणकाल इति यावत् ।
२. विभा भावसरे,
  प्र. गु.