पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९४
काव्यमाला।

विषयाननुकूलयितुं विषयिणि हृदये विधीयतां यत्नः ।
दृशि देयमौषधं को दृश्ये दत्त्वा सुखी भवति ॥ २८॥

दाराः पुत्रेषु रताः पुत्राः पितृधनपरिग्रहव्यग्राः ।
रोदनशरणा जननी परलोकगतस्य को बन्धुः ॥ २९ ॥

पश्यन्ति म्रियमाणान्मरिष्यतोऽनुमिमते स्मरन्ति मृतान् ।
कथयन्ते चैवमसच्चेष्टन्ते नित्यवत्तु परम् ॥ ३० ॥

कलहायन्ते मूढाः कः प्रतिभूः श्वः प्रभात इति ।
तस्यामेव रजन्यां कः प्रतिभूः स्वस्य सत्तायाम् ॥ ३१ ॥

कुल्याः कृता विशालाः कुड्यान्युपलैर्निबद्धानि ।
क्रीता बलिनो महिषाः कृतकृत्याः स्म इति मन्यन्ते ॥ ३२ ॥

आ प्रपदमा शिरस्कं चान्तः कलिमलमलीमसे वपुषि ।
विफलं गङ्गाजलमपि मद्यघटे दर्भमुष्टिरिव ॥ ३३ ॥

दण्ड्यं यत्सुखहेतोः पुष्णन्ति जनाः कथं तदेव वपुः ।
नहि शर्कराभिलाषिभिरिक्षोः काण्डानि पूज्यन्ते ॥ ३४ ॥

प्रायो मुह्यति चेतः प्राणभृतः प्राणनिर्गमावसरे ।
पुण्येन यदि न मुह्यति पुत्रानेव स्मरन्म्रियते ॥ ३५ ॥

शमयितुमौदरमग्निं संसारख्याम्बुधौ निमज्जन्ति ।
तुहिनव्यथानिवृत्त्यै नहि वेश्मनि पावको देयः ॥ ३६ ॥

आहृत्य परित्यक्ता जनयन्त्यर्थाः सुखाभासम् ।
अत्यन्तपरित्यक्ताः परमानन्दाय कल्पन्ते ॥ ३७ ॥

अर्थानामधिकानां राज्ञा चौरेण वा नाशः ।
अन्ने खल्वतिमुक्ते वमनं वा स्याद्विरेको वा ॥ ३८ ॥

प्रणमति परिसान्त्वयति[प्रणि]पतति सदा परिभ्रमति ।
आविष्ट इव पिशाच्या पुरुषस्तृष्णावशं यातः ॥ ३९ ॥

जननाद्दृष्टात्पितरौ पुत्रा जामातरोऽप्यथादृष्टात् ।
कलहादृष्टाज्ज्ञातय इति निर्णीते किमेष्टव्यम् ॥ ४० ॥