पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कौन्तेयवृत्तम् अथो मृणालानि मृदूनि कानिचिन्मरन्दसाराणि सरोरुहाणि च । आदाय मध्येऽहनि विश्रमाय ते निषेदुरध्यासितसाधुवेदिकाः ॥ ३० ॥ आहर्तुकामो विहितेन हेतुना समानुमत्यात्तरसं रसोत्तरम् । भव्ये मृगव्ये विनिधाय मानसं जगाम जङ्घालतयार्जुनाग्रजः ॥ ३१ ॥ महोरुहच्छायमदभ्रमाश्रितं युवानमेकं तृणतृप्तमसलम् । सकृष्णसारं शरपातसंमितां महीमतीत्य स्थितिमन्तमैक्षत ॥ ३२ ॥ सं यावदिष्वासनिषङ्गसङ्गिनं विभाव्य भीमं बलते. पलायितुम् । संघाय बाणं पवमाननन्दनो जगाम तावत्तदुपान्तिके जवात् ॥ ३३ ॥ प्रस्कन्दमानं वसुहस्तपातिनं पश्यन्तमत्यन्तमधीरया दृशा । आलक्ष्यलक्ष्यं चलमेनमञ्जसा विभेद भीमो निशितेन पत्रिणा ॥ ३४॥ तेने ततस्तेन तदेतदद्भुतं गुणावतंसेन विसारि सौरभम् । विचित्रचेतोहरमाधुरीभर करम्बितं नूनमनूनतेमनैः ॥ ३५ ॥ विभज्य भोज्यं मृदुमेदुरोज्ज्वले शिलातले बल्लभयोपकल्पितम् । आस्वाद्य सर्वेऽपि विधाय विश्रमं विहार कासारमुपेयुत्सुकाः ।। ३६ ।। यथोचितं तान्यवचित्य कौतुकाददूरपद्माकरवारिजानि ते । प्रसन्नवारिण्यवसन्निषद्वरे सरोवरे चिक्षिपिरे विलासिनः ।। ३७ ।। तस्मिन्भवं ते भजमानमञ्जसा योगेन पनाकरनामधेयताम् । आश्लेषलेशादपि तापभञ्जनं शनैः शनैरेव सरो जगाहिरे ॥ ३८ ॥ पयोमिरुच्चैः करतालचालितैः पाणिद्वयीयन्त्रविनिर्गतैरपि । तो सारसासारसिकेलिसंगरं जायापती बिम्रमतो बितेनतुः ॥ ३९ ॥ तदा रसार्द्रेण हृदा कृतादरावनेकज्जातीयजलादिकेलिषुः । श्रियं दधानौ रतिपञ्चबाणयोर्जगन्ति जाने जयतः स्म जम्पती ॥ ४० ॥ तत्रारविन्दच्छदभाजि. वक्षसा भुजक्षिपाभिश्चरणप्रचारणैः निमग्नभङ्गया शयनीयशीलनैस्तेरुः कलाकौशलकल्पनैरमी ।। ४१ ।। निर्गम्य तमात्सरसो रसोत्तरास्तामारविन्दच्छदचारुचक्षुषः । आयासनिश्वाससमीरसंगमैरभ्यासमामोदमयं विधायिनः ।। १२ । १. असलं पुष्टम्