पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। हर्षावगाहोद्भवदेहलाघवाः खेलासमारम्भनिबद्धमध्यमाः। विश्रामकामां दयितामपीदृशीं निपीयमानाः सुदृशं विशश्रमुः ॥४३॥ मुदं दधानेन तपानुबन्धिना दिनेन तेनेत्थमुदित्वरश्रियम् । सीमानमुल्लङ्घय निसर्गनिर्मितां पराबभूवे कतमो न वासरः ॥ ४४ ॥ चित्रार्चिषो रोचिरुदञ्चयन्करैः संकोचयन्कंचन भानुसंचयम् । अचण्डचञ्चद्रुचियुग्विरोचनश्चुचुम्ब चूलं किल पाश्चिमाचलम् ॥ ४५ ॥ आसन्नविश्लेषमलीमसश्रियां विश्वासमाधातुमिहाम्वुजन्मनाम् । समाचरन्सत्यमिवात्मसंगमे दधार मध्येऽग्नि करं स रागवान् ॥ ४६ ।। दिवाधिकारादपनिद्रपद्मया जगन्ति संतोष्य चरत्करश्रिया । दैवादियं संकुचतीति भावयन्नदृश्यतां नूनममन्यतोचिताम् ॥ ४७ ।। जपावसाने जगतीविलोचनं बद्धा विवस्वन्तमुपासितुं मुदा । काले तदा कुड्मलदम्बुजन्मनां (तां) दधुस्तला(मा)मञ्जलयो द्विजन्मनाम् ।। निर्गम्य माहेन्दमहीध्रकंदरादुद्दामभात्वन्मणिमौलिमञ्जुना । निपीतकिंचित्पयसा पयोनिधौ न्यमज्ज्यताहीनदिनेन पश्चिमे ॥ ४९ प्रसादयन्निर्भरमम्बरस्पृशा करेण माहेन्द्रदिगङ्गनामुखम् । ततश्चिरोत्कण्ठचकोरचक्षुषामासेचनश्चारु चचार चन्द्रमाः ॥ ५० ततः प्रसन्नामुदिते कलानिधौ कुमुद्वतीं योषितमात्ममन्दिरात् । पद्मासना सत्वरमेत्य संमुखी शृङ्गारयामास मुदेव नन्दिनी ॥ ५१ ॥ श्रीसंनिधानत्रपया तया समं न प्राय साक्षात्परिरम्भसंभ्रमम् । प्रभाभिरेनां परिरभ्य निर्भरं प्रमोदयामास परं कलानिधिः ॥ ५२ ।। नीलैकभागं तदखण्डमण्डलं प्राकल्पि लोकैः किल शुक्तिसंपुटम् । गलन्ति यत्तारकवृन्दकैतवात्समौक्तिकार्नीति गृहीतयुक्तिभिः ।। ५३ ॥ ते कौमुदीसंगतचन्द्रकान्तस्रवत्सुघानिर्झरमञ्जुनादम् । निपीयमानाः किल कीरकण्ठीमालापयन्तो मधुरेति हान्तः ॥ ५४ ।। यामान्तरोज्जृम्भितवक्त्रचन्द्राः प्रमीलदम्भोरुहचारुनेत्राः । तयापि तादृग्विधया समेतातिरस्कृतोद्यद्रतिकामदर्पाः ।। ५५ १, चित्राषिों बक्के