पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । सा बुद्धिरुतमालोकः सतामार्या पुनातु वः यद्भक्तेरुतमा लोकः प्राप्तोत्येष विशुद्धताम् ॥ १० ॥ (विशेषकम् ) सार्या पूज्या वो युष्मान्पुनातु पवित्रीकरोतु । या दमावनयागेन दम उपशान्तचित्त- ता तेनावनं पालनं तदेव योग इष्टिस्तेन स्नाराद्या सुखमाराध्यतेऽभिमुखीक्रियते । यथा नयसारया नीतिपरया हरिकैतवहास्वाय हरेरिन्द्रस्य कैतवहास्याय व्याजोपहास्याय साया- माः सविस्ताराः कृतोद्यमा विजिताः पराभूताः। अभिमानवशेन शक्रमप्युपहास्याय के- चिदाक्रमन्ति तेऽप्यभिभूता ययेति भावः ॥ ८ ॥ या आयत्ताजिविमाया आयते वितते आजौ सङ्ग्रामें विमाया विगतप्रपञ्चा। स्पष्टयुद्धा विविधमायाप्रपञ्चा वा । यस्याञ्च देव्याः सा स्वा दया निजा करुणा अनवमा शोभना हा बत कैर्देवादिमिरिहास्मिन्नगति न गेया न गातव्या। सर्वैरेव स्तुत्यैत्यर्थः । हाबतशब्दौ द्वा- त्रपि विस्मये। यथा 'अहो बतासि स्पृहणीय वीर्य' इति । का च सा. दया, या रसाय- नधारा पीयूषस्रुतिः । आह्लादकत्वात् ॥ ९ ॥ अन्यच्च । सतां साधूनां बुद्धिर्धीः। कीदृशी धीः । उत्तमालोक उत्कृष्टप्रकाशः। प्र- ज्ञाचक्षुर्हि अतरणिशशधरदहनभासोऽपि पश्यति न चर्मचक्षुरिति रजस्तमोरहितप्रकाशरूपा हि या बुद्धिस्तद्देवीखरूपमाहुः । तथा च यद्भक्तेर्यदीयसेवनात् उत्तमा उत्खाततमाः वि- नाशितमोहः सन् उद्गततमा अपि वैष लोकोऽयं जनो विशुद्धतामपगतकल्मषत्वमेति प्रा. प्नोति ॥ इत्यनुलोमोत्पन्नेन श्लोकेन सह श्लोकत्रयेण विशेषकमिदम् ॥ १० ॥ अयुद्ध साधुत्राणाय सामरा या सहारिणा । खङ्गेन दीप्रा देवानां सामरायासहारिणा ॥ ११ ॥ चरणापातनिहतकासरा चरणाजिरे । रराज या जयजयैरराजसजनानता ॥ १२ ॥ सावताद्वोऽम्बिकाभ्यर्च्यनामा न न यशोऽमितः । तनोति प्रणतो यस्या ना मानेनयशोभितः ॥ १३ ॥ (इदमपि विशेषकम् ) साम्बिका जननी' वो युष्मानवताद्रक्षतात् । या सामरा सदेवा संती । अथवा साम सान्त्वं राति ददाति सामरापि सती साधुत्राणाय सज्जनपरिरक्षणायारिणा शत्रुणा समम- युद्ध युद्धमकार्षीत् । कीदृशी देवी । खङ्गेन करवालेन दीप्रा उज्ज्वला । कीदृक्षेण। देवानाममराणां, सामरं सङ्गामभवमायासंक्लेशं हरति तच्छीलस्तेन सामरायासहारिणा । साङ्गामिकक्लेशविनाशिनेत्यर्थः ॥ ११ ॥ नयन' क २. “नयन' क