पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

देवीशतकम् । तथा या देवी नयजयैर्नीत्युत्कर्षै रराज शुशुमे । किंभूता । रणाजिरे सङ्गमाङ्गने चर• णापातनिहतकासरा पादाहतिव्यापादितमहिषासुरा । अन्यत् , अराजसजनानता । रजः- प्रतिषेधाद्दूरतरे तमो निषिद्धम् । तत्सात्त्विकजनप्रणतेत्यर्थः । यथा च 1अरजस्काः परं पदम् ॥ १२ ॥ अपरं यस्या देव्या ना मनुष्यः प्रणतः प्रह्णो न नामितः समन्ताद्यशः कीर्तिं तनोति विस्तारयति । अपि तु तनोत्येव । स च नाभ्यर्च्य॑नामा पूज्याभिधानः । देवी चाभ्यर्च्यो नामो नमनं यस्या इति । अन्यच्च स पुमान्माननयशोभितः। माननयाभ्यामलंकृत इत्यर्थः १३ संयतं याचमानेन यस्याः प्रापि द्विषा वधः। संयतं या च मानेन युनक्ति प्रणतं जनम् ॥ १४ ॥ या दमानवमानन्दपदमाननमानदा । दानमानमाक्षमानित्यधनमानवमानिता ॥ १५ ॥ (मुरजबन्ध) सा रक्षतादपारा ते रसकृद्गौरबाधिका। सारक्षतादपारातेरसकृद्गौरवाधिका ॥ १६ ॥ (समुद्गकम्) (इदमपि विशेषकम्) सा देवी ते रक्षतादवतात् । यस्या द्विषा शत्रुणा संयतं सङ्ग्रामं याचमानेन प्रार्थयमानेन वधः प्रापि मरणमलम्भि या च देवी प्रणतं प्रह्णं संयतं जनं यमनियमवन्तं लोकं मानेन युनक्ति पूजया संबध्नाति ॥ १४ ॥ या देवी दमानवमानन्दपदम् । दमेनेन्द्रियजयेनानवमः श्रेष्ठो य आनन्दपद आनन्द- स्थानम् । विद्यया हि शमसुखलामः । किंच, आननमानंदा । आननस्य मुखस्य मानं पूजां श्लाघारूपां ददाति प्रयच्छति । निरपभ्रंशपदभाषणान्मुखं पूज्यं भवति । एवं च पद- द्वयेन प्रकाशरूपं वाग्रूपं च देव्या आगमोक्तं प्रकाशितं भवति । तथा दानमानक्षमानित्य- धनमानवमानिता । दानं सत्पात्रे धनसमर्पणम् । मानं ज्ञानम् । क्षमा रोषोपघातः । ता एवं नित्यमविनश्वरं धनं वित्तं येषां मानवानां पुंसां तैर्मानिता पूजिता । दानादिभिरेव देव्यर्चिता यथा भवति न तथा पुष्पादिभिरित्यर्थः । एष मुरजबन्धः ॥ १५ ॥ सा अपारा अपर्यन्ता गौर्वाक् अबाघ्निका अविघातिनी रक्षतात् । सारक्षतादुत्कर्षक्षतेः असकृत्युनःपुनः । रसकृत् रसं रागं करोति छिनत्ति च सा रसकृत् । अभिमतं निरीहं वा वस्तु रक्षतात् । कीदृशस्य ते । अपारातेनि:शत्रोः किं च, गौरवाधिका गौरवेण पूजयाधि- कोत्कृष्टा । सर्वेषां गुरुरित्यर्थः । एष समुद्गकबन्धः ॥ १६ ॥ "अरजस्क' क.२, 'मानन्द क.