पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अन्यापदेशशतकम् । यः प्रासूत सुतं सुधाकरमुमाप्राणेशचूडामणिं लक्ष्मीर्यस्य सुता हरिप्रियतमा यः कालकूटाश्रयः । पातु पाणिपुटे कृतस्य मुनिनागस्त्येन तस्याम्बुधे- र्जाताः केऽपि न रक्षणक्षमतमा दैवं ततो व्वेतु कः ॥ ६३ ॥ यो दिङमण्डलमुद्धरत्युरुतमोप्रासादनायासतो येनानन्दमनिन्दितेन लभते चित्ते कुमुद्वानपि । यं चाश्रित्य जगज्जयत्यतनुरप्येवंगुणोऽसौ विधू राहोरास्यकरम्मतामुपगतः कस्मै किमावेद्यताम् ॥ ६४ ॥ कैरविणीकुलबन्धो हिमकर सिन्धोरवाप्तजन्मासि । इति तव महदयशस्यं मलिनयसि यदम्बुजश्रेणिम् ॥ ६५ ॥ संगम्य दुग्धनिवहेरविशेषबुद्ध्या किं वारिपूर बहुदूरमुपेहि मोदम् । दुग्धाभिलाषिणि विवेकिनि राजहंसे हा हा क. यास्यति पदं भवतोऽभिमानः ।। ६६ ।। यो मन्दारमरन्दबिन्दुनिवहैः संवर्धितः शैशवे तारुण्ये मदमाचचाम बलमिद्वेतण्डगण्डस्थले । सोऽयं जीर्णतर्निनीषति जनुः कार्पासपुष्पेष्वलि- र्दुर्दैवव्यवसायतोऽस्य तदपि प्रायोऽभवदुर्लभम् ॥ ६७ ॥ नादत्तेऽनुचरोपनीतकवलं. सर्पिःसिताप्लावितं यत्नेनापि न पातुमिच्छति मनोहारीणि वारीण्यपि विन्ध्यासन्नवनीवियुक्तकरिणीचिन्तादुरन्ताधिवा- न्मूर्धानं विधुनोति बन्धनगतः स्तम्भेरमः केवलम् ॥ ६८ ।। देशोऽयं मरुरुगतो विधिवशादस्ंमिस्तडागोल्पक- स्तत्रैकाजनि मद्विधालिंनिकरप्राक्पुण्यतः पद्मिनी । तामुन्मूलयितुं समुद्यतकरस्त्वं तावदुत्कण्ठसे हे दन्तावल ते कथं न बलते दृष्टिः कृपाकोमला ।। ६९ ।।