पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। कस्मै दैन्यमुपैतु काननतले कोऽन्यो गरीयानितो यं वालम्ब्य करेण कर्षति वपुस्तीरे न तादृक्तरुः । गृधैर्योम्नि शिवागणैर्भुवि मुहुर्जिज्ञासितासुव्ययो हा धिक् पङ्कपराभवे निपतितो दन्तावलो हीयते ॥ ७० ॥ पस्पर्धेऽञ्जनपर्वतेन सह यस्तन्वा तदन्वाययौ साधर्म्य श्रुत्तसप्तधामदपयःसारेण धाराभृताम् । दिग्दन्तावलराजिमाजिषु रदाघातैर्जिगायौजसा सोऽयं दैवनिबन्धनं विषहते दन्तावलो बन्धनम् ॥ ७१ ।। अजनि रजनिजानिर्ग्यद्यपि क्षीरसिन्धो- रलभत पदमुच्चैमूर्ध्नि कंदर्पशत्रोः । तदपि यदि जडात्मत्वात्कलङ्कावगुण्ठं वहति हृदयमध्ये कस्तदा किं करोति ।। ७२ ॥ शरद्धने गर्जति वारिवाञ्छा कदापि रे चातक नैव कार्या। इदं तु निर्व्यूढमवेहि तत्त्वं गर्जन्ति ये ते न फलोपलब्ध्यै ।।७३ ॥ रे काक किं रटसि कर्णभिदः कटूक्ती- र्वाचालता नहि विदग्धविनोदभूमिः । पश्येति कोकिलयुवा समये कदाचि- त्सूक्तिं लपन्नभिमतो न जनस्य कस्य ।। ७४.॥ वैदग्ध्यमन्दिर मनोहररूपमात्रा दिन्दिदिर भ्रमणमिच्छ न कर्णिकारे । अस्मिन्नुदेष्यति न कोऽपि रसोपलम्भः सौरभ्यदुर्भगमिदं जगति प्रसिद्धम् ॥ ७५ ॥ अकाले संनद्धो नभसि मुदिरो मेदुरतरः परीतस्तोयाशाविवृतवदनैश्चातकगणैः तथानेनारब्धं किमपि चरितं येन करका- निपातैरेतेषां संपदि शतधाभिद्यत शिरः ॥७६ ॥ ।