पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७२ काव्यमाला। सिन्धुबन्धुममुमम्बुलिप्सया सेवसे किमु निदावबाधितः । सेवनस्य परिदेवनं फलं लप्स्यसे न कणमप्यपां पुनः ।। ५५ ॥ यत्र नैव कलहंसकूजितं नाथ पङ्कजसमूहसंभवः । नापि कापि जलखेलनक्रिया तक्किमम्बुजलमुच्यते जलम् ॥ ५६ यद्विशालजधनाङ्गनागणस्नानधौतकुचकुङ्कुमारुणम् । उन्नदजलपतत्रिचित्रितं तत्सरोवरपयः पयः स्मृतम् ॥ ५७ ॥ हंसैमौनमकारि वारिजकुलैरासादित मुद्रणं शोकः कोकमवाप कामपि दिशं भेजे दिनश्रीरपि । अस्ते भास्वति हा दिगम्बरतलं व्याप्तं तमोभिर्दिशो भीमाः फेरवफू(पू)त्कृतिव्यतिकरैर्नृत्यन्त्यमी पेचकाः ॥ ५८ ।। ज्योत्स्नाभिः ककुभो विभूषय तमोमालाजटालाम्बरं द्रागुल्लासय वासयापिं कुमुदामोदैर्मही त्वं विधो। सर्वे सम्यगिदं तथापि किमपि ब्रूमो वयं कुप्य मा यादृक् श्रीर्जगतां रवौ न तु पुनस्तेनैव सा भाविनी ।। ५९ ।। वासन्ती नः विलोकित्ता कमलिनी नालिङ्गिता नेक्षिता यूथी नापि कुमुद्रती परिचिता नापेक्षिता मालती युष्मद्दानसमीहया मधुलिहा हन्त त्वयायं पुन- र्दूरादेव निवार्यते गजप किं कर्णस्य विक्षेपणैः ॥ ६० ॥ यावन्नृत्यं कलयितुमलं सज्जते नीलकण्ठे यावच्चञ्चूमपि च विवृणोत्यम्बुने चातकोऽपि । संनद्धोऽयं वियति जलदस्तावदुत्पातवातै- रागत्योचैरहह सहसा क्वाप्यपाकृष्य नीतः ।। ६१ ॥ एकत्रैव कुलायकोषकुहरे वृद्धि परां प्राप्तयो- रेकाकारजुषो रसालशिखरे साकं समासीनयोः । इत्थं कोकिलकाकयोः कथमहोत्पधेत भेदग्रहो नो चेज्जातिनियन्त्रितेह वचसा व्यक्तिर्भवेद्भेदिका ।। ६२ ।।