पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अन्यापदेशशतकम् । काकुं चातकपोत नाकुलतया कुर्वा वृथा शारदे यावद्वारिभरव्ययेन नितरां रिक्तीकृते वारिदे । त्वतृष्णा न विराममेष्यति परं काका पयोविप्रुषो- ऽप्युत्सर्गे हतशक्तिरेष भविता व्रीडां व्रजः केवलम् ॥ ४७ ।। स्थाने स्थाने सुमेरुप्रभृतिगिरिवराः सन्ति नोर्व्यो कियन्तः किं तैरेको... मलय महिमा पूजनीयस्तवैव । चञ्चत्पाटीरवाटीप्रभवनवनवामोदसंपत्समृद्ध्या यस्त्वं शश्वत्समामोदयसि निरुपधिः सर्वतो दिङ्मुखानि ॥ ४८ ॥ सद्वृत्तोऽसि गुणान्वितोऽसि विमलच्छायोऽसि पृथ्वीपति- त्रस्यच्चारुचमूरुशावकदृशामभ्येषि दन्तोपमाम् । मुक्ताहार पर त्वरूंतुदमपि ब्रूमो वयं यद्भवा- नन्तःशून्यतरोऽस्ति तत्प्रतिपलं चेतः समुत्ताम्यति ॥ १९ ॥ भूयांसो जलबिन्दवो जलमुचा स्वातौ विमुक्ताः परं निःपीताः खलु शुक्तिकाभिरिह ये ते बिन्दवः बिन्दवः तद्गर्भे परिणामतः परिणता मुक्ता नृपप्रेयसी- पीनोत्तुङ्गपयोधरोपरि सुखं खेलन्ति हारस्थिताः ॥ ५० ॥ भ्रातः षट्पद यत्र तत्र कुसुमे तृष्णातुरो न भ्रमः स्वल्पाहेन विराममेष्यति सरोजानां विपच्छैशिरी। अन्तारूढबिसप्रसून कुलामोदैरिदं सूच्यते द्वित्रैरेव दिनैः प्रफुल्लकमलाकीर्णं सरः स्यादिदम् ।। ५१ ॥ भ्रमर भ्रमतोऽपि केतकीनां विपिनं नैव कदाचिदप्युपेहि । रसलब्धिरिहास्तु वा न वास्तु नियतः कण्टकसंकटे निपातः ॥५२॥ दूषणान्यपि महान्ति धीमतां संवृणोति समुपार्जितो गुणः । स्रग्विलुम्पति गुणेन केवलं मौक्तिको प्रकटरन्ध्रमात्मनः ।। ५३ ॥ मोहितो मधुप रूपसंपदा कर्णिकारकुसुमं किमीहसे । नेह सौरभसमागमस्तव व्यक्तिमेष्यति परं तु मूढता ।। ५४ ।।