पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अन्यापदेशशतकम् ।

लवङ्गि द्वागङ्गीकुरु सुरभितामाहर मन- स्त्वमप्यम्भोजश्रीः कुमुद मुदमाधेहि हृदये। नमस्या सा कापि स्फुरति पुनरन्यैव लतिका.. गतवीडं क्रीडन्पिबति मधु यस्यां मधुकरः ॥ ३४ ॥ कियत्यः श्रीमत्यः कुसुमकुलसौरभ्यसुभगा. दृगानन्दं यूनां जगति जनयन्त्येव हि लताः । परं त्वासां मध्ये सफलजनिरेकैव सुमना विना सङ्गं यस्या दलति हृदयं हा मधुलिहः ।। ३५ ॥ धन्याः स्पृशन्ति मधुपास्तव पल्लवाली- मन्तर्निविक्ष्य मधु किंतु पिबन्ति पुष्पे । एतावतैव सफलं मम जन्म जात- माकस्मिक यदिह मालति वीक्षितासि ॥ ३६ ॥ रा काक कालवशतो यदि सौधपृष्ठ- मारूढवानसि तथापि हि काक एव जम्बालजालपतितोऽपि मरालबालः कैर्नाद्रियेत रमणीगमनोपमायाम् ॥ ३७ ॥ स्पर्धां जातिकृतां भजन्तु भवता सार्धं परे सागराः किंवा दुग्धपयोनिधे तब तुलामभ्येतुमेते क्षमाः । त्ंव तादृढ्यहिमालयो विजयते तत्तादृशं ते यशो देव्या सिन्धुभुवा समं यदुदरे निद्राति दामोदरः ॥ ३८ ॥ केऽमी दिक्करिणो रणोद्धुरतरश्चेदस्मि कस्मिंश्च वा शक्तिस्तादृगिहास्ति यस्य न भयं जागर्ति मद्दर्जिते । एवं केवलमात्सनैव गुरुतामात्मत्यभिद्योतय- न्साहंकारमितस्ततो विहरते कूपोदरे दर्दुरः ॥ ३९ ॥ द्वित्राम्भोधरवारिबिन्दुजटिले गर्ते स्थितः स्वां तनुं वीक्ष्य स्वर्णसमा किमित्यतितमां जल्पन्मुधा मोदसे नव० गुरु