पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

क्वापि स्थैर्यमुपागतस्य सहजेनाग्रे पदान्यर्पितुं

स्वेच्छाचारपरस्य पेचकिपते रोमापि न स्पन्दते ॥ २७ ॥

फेत्कुर्वन्त्यपि फेरवोऽतिपरुषं चेत्पार्श्वयोराश्रिताः काकाश्चेदुपरि स्थिताः प्रतिदिशं कुर्वन्ति कोलाहलम् । मन्दं मन्दमुपान्तमीलितदृशो मार्गे पदं न्यस्यतः किं भेदं समुपैति कुञ्जरपतेर्मानोन्नता भ्रूलता ॥ २८ ॥

यद्यूथाधिपपालितेन भवतारण्या वने निर्जिता हे दन्तावलडिम्भ किं भवति ते तत्कीर्तये पौरुषम् । यूथेशे समयेन कालवशतां प्राप्तेऽथ कुत्रापि चे- त्किंचित्सेत्स्यति ते बलं तदमलं कर्ता यशोमण्डलम् ॥ २९॥

चन्द्रस्तावदलंकरोतु रजनीं भासां भरैर्मुद्वतीं व्याधत्तां च कुमुद्वतीं विनयतु ध्वान्तोपरोधं दिशास् । किं च क्लान्तचकोरचेतसि मुदं पुष्णातु किं तावता यद्येता मलिनीकरोति पुरतस्ताराः सुदारानपि ।। ३० ॥

माकन्दे कुरु मञ्जरीभिरशनं कर्णे सुधावर्षिणीं वाणीं व्याहर किंतु कोकिल शुकस्पर्धा वृथा मा कृथाः । योऽसौ काञ्चनपञ्जरे परिलसन्नाकर्णितान्युच्चर- न्देवीभिः समुपास्यते सविनयं दुग्धौदनप्राशनैः ॥ ३१ ॥

स्वच्छन्दं कलहंस संचर सुखं निद्राहि पारावत त्वं चोच्चै रट हे शिखावल शिखामारुह्य भूमीरुहाम् । अस्माभिः शुक एवं केवलमिहारण्ये समन्विष्यते यस्मै राजनितम्बिनी स्पृहयत्ति श्रोतुं गिरा पाटवम् ।। ३२ ॥

अङ्गीकृतः प्रसवबन्धनतो वियोगः सोढानि तानि करजक्षतिपीडितानि । उद्यानपाल तदिदं तु मनो दुनोति ग्रथ्नासि यत्कुरुबकैः सह मालतीं माम् ॥ ३३ ।।