पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईश्वरशतकम् । क्तासन सुकृतेन धर्मणाक्तं सेवितमासनं यस्य तद्विधः। तया हे स्वाज्ञादमाससुमत शो- भनाश्च ते आज्ञादमाश्च तेषां य आसस्तेन शोभना मता यस्य तादृश । अद्य ! मामित्य- र्थात् । त्वमवसि रक्षसि । तथा हे [सा) ज्ञत्वानुकृतप्राप्य [सा) ज्ञत्वस्य यदनुद्धतमनुक- रणम् । नपुंसके भावे कः। तेन प्राप्य सतां वरं । नाम संभावनायाम् । इत्यतो हेतो मो- क्षाय मम । तथा य आधिर्मनोरुक् । नय स्वमवसीति स्पष्टीकृतं पुनः ॥ ८३ ॥ ८४ ॥ कृतानतज्ञसुरमाहितत्वाप्यवताद्वय । रसारक्षासार1तम कृतज्ञ सुर माप्यव ।। ८५ ॥ अष्टापदान्निर्गतसमञ्जसबोधो गूढचतुर्थः कृतमानतं जानन्ति ये तादृशाः कृतानतज्ञा देवा योगिनस्तेषां या सुरमा शोभना चासौ रमा लक्ष्मीस्तस्यै हितत्वं यस्य तथाविध हे कृतानतज्ञसुरमाहितत्व, तथा हे आप्य भक्तिगम्य । तथा हे अद्वय । तथा हे रसायां रक्षतया सारतम कृतज्ञ हे सुर देव म अपि मामपि त्वमव ।। ८५।। सुप्रज्ञानतसारज्ञ सकृतान्ततनुव्यय । रक्षावतारमद्य त्वमतिभासुर सुस्थिर ।। ८६ ॥ अष्टापदनिर्गतः कविनान्ना कुसुमोच्चयबन्धः ।। हे सुप्रज्ञ शोभनश्चासौ प्रज्ञस्तथाविध, तथा आनतसारज्ञ आनतानां भक्तानां सार- मुत्कर्ष जानाति यस्तद्विध, तथा हे सह कृतान्ततनुव्ययेन वर्तेते तद्विध, अवतारं

र-

क्षेति कविराशास्ते आत्मनि । हे अतिभासुर दीप्तिमन् । हे सुस्थिर अविनश्वर ॥ अष्टा- पदात्रिर्गतकविनाम्ना कुमुमोच्चयबन्धः ॥ ८६ ।। वेद वेदविदां वादविद्देवो दिवि दावदः । वादो वादेवदेवादिविद्यो वादिवदे विदम् ॥ ८७ ।। एकान्तरितव्द्यक्षरः ॥ हे देवदेव, अहं वदे व्यक्तं वदामि । देवः देवादिवस्तुभावि वेद जानातीत्यर्थः। वेदविदां मध्ये वादवित् दिवि दावमुपतापं दैत्यकृतं द्यति खण्डयति यः स दावदः आदि वित् सर्वज्ञत्वात् । देवीविदं अहं न झटित्यविदम् ।। ८७:। कथाभोगजडो मूढवया आरोषणामुखः । आद्या फलायदिशतो नाहं झटिति चाबुधः ।। ८८ ।। अपुनरुक्तव्यञ्जनः ।। अहं कथाभोगजडः, मूढं व्यर्थ क्यो यस्य, आसमन्तात् रोषणतया आमुखः, अचै रफलायासापदिशतः । अबुधश्च ॥ ८८।। १. 'सारकृत' क-ख