पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। स्थिर सुरवरसुप्रसाद क्षमोपेत हा मोधमोहातपे मोक्षद त्वामजं दिवि भुवि च विभुं कृपादे (वे) शहीनाविभौ कालकामौ निनाहीशदेहाङ्गदम्। वितरणगुणरत्न तौ रौरवीयाधिदौ मा किमादौ धिया वीररौद्रौ यतः किमु भव भवभङ्गदोषागते पाशवे साधुसावेशपाते गदा घ्नन्त्यलम्।।८९॥ चण्डव्यष्टिप्रपातदण्डकेन नन्दिकावर्तबन्धः ।। स्थिर अविनश्वर, सुरवरेषु ब्रह्मविष्णुप्रभृतिषु शोभनः प्रसादो यस्य तथाविध, क्षमो- पेत क्षान्तियुक्त, हा कष्टम् । मोघे निष्फले मोहातपे अज्ञानतापे मोक्षद, त्वामजं हि दिवि भुवि च विभुं द्यावापृथिव्योः स्वामिनम् , अहीशानां नागराजानां देहा अङ्गदा यस्य तथाविधम् , विभा इमौ तो कालकामौ विना रौरवीयाधिदौ रौरवीया आधिः पीडा तत्प्रदौ, धिया प्रज्ञया वीररौद्रौ कि मा मादोयत्ताः (१) खण्डयतः । किमु तव वितरण- गुणरत्न हे भव भवभङ्गदोषागते पाशवे पशोरयं पाशवस्तस्मिन्पाशवे, तथा साधुसावे. शपाते सति गदा रोगा जरादयो घ्नन्त्यलं तत्सर्वं देवदेव देवो देवी वा इति ॥ चण्ड- व्यष्टिप्रपातदण्डकेन नन्दिकावर्तबन्धः ॥ ८९ ॥ तुभ्यं जगत्रयत्नाणससंपज्जयते नमः । शिव संयत्सभाशील जय सज्जनयत्सल ।। ९०॥ 'जय सज्जनवत्सल' इति चतुर्थः पादः समञ्जसेन प्रतिलोमेनैव पाठेन निर्गच्छति भ्रान्तिसमञ्जसबोधो गूदचतुर्थः ।। हे शिव, जगत्रयत्राणे सह संपद्भिरष्टाभिर्द्धिमयीभिर्वर्तते यस्तत्संबोधनम् । जगत्र- यत्रांससंपद् तुभ्यं जयते सर्वोत्कृष्टाय नमः ॥ संयत्सभाशील संग्रामपर्यत्परायण स- त्पुरुषवत्सल त्वं जयः । तुभ्यमियस्मात् 'जय सज्जनवत्सल' इति चतुर्थः पादः समञ्ज- संप्रतिलोमेनैव पाठेन निर्गच्छति ॥ समञ्जसबोधो गूढचतुर्थः ॥ ९ ॥ सुधीसारज्ञताभव्यजय मासामगक्षम् । सुसाज्ञ भज मामक्षधीरताव्यय सागम ॥ ९१ ॥ प्रथमार्धादेकान्तरितात्यक्षराण्युञ्चित्य तृतीयपादः, शिष्टाक्षरैस्तथैव चतुर्थपादः ॥ सुधिया शोभनप्रज्ञया या सारज्ञता तया हेतुभूतया भव्य उत्कृष्टो जयो यस्य तद्विध मा शोभा तथा सामगा सान्त्वगा क्षमा यस्य तद्विध, सर्वसहेत्यर्थः । सुसाज्ञ शोभनन्चासौ साझव तदामन्त्रणम् । अक्षैर्यो धीरता तया अव्यय । सागम सर्वागमसम (मां भज) प्रथमादिकान्तमत्तान्यक्षरातण्युचित्य तृतीयपादः, शिष्टाक्षरैस्तथैव चतुर्थपाद: ।। ११ ॥ -