पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। तथा अधिकः अरो गमनं बाणादौ येषां तादृशा येऽसुरास्तेषां सारस्य बलस्य सादं सादं राति ददाति तादृशी। तथा किंविधा । [आ]सुरसा नतेषु समन्तात् ] शोभनरसा। पुनः किंविधा । रसादरा रसायां भूमौ अदरा निर्भया । तथा असमाधिकारासुरसार- सात् असमा आधयः तथा कारा बन्धनगृहं येषु ते तादृशा ये असवस्तेषु यो रसो हेवाकस्तत्र आरं अरीणां समूह आरं सर्वसारसपत्र आरसात् द्विषां वधेन तेषामेव अरा धारा सुदर्शनस्येव । सा च अरिभटानां वधेः सुतीक्ष्णा संवास आरासरिसमूहा इव अहं तव नयं नमामि । वं किं शमिमानवा भयशमिनों मानवास्तेषां अभयमभयप्रदत्वात् । आयुधं तमिति न्यायेन यतो भवानिर्जितः । नयं कथंभूतम् भवानर्थजितं संसारानर्थभे- दिनम् । आततं विस्तीर्णम् ॥ ७९ ॥ ४० ॥ कृतानवतनुप्राज्ञ स्वाभासुरसमाधिकृत् । स्थिताज्ञाहिसितत्वाप्य दमासक्ताव मा व्यरि ।। ८१ ॥ सुरमात्य स्थितिसम संतताथाद्वयस्वन । सरसारमना माक्षामतिसारतमोद्यम ।। ८२ ॥ द्वाभ्यामष्टदलपद्मबन्धः ।। (कुलकम् ) हे कृतानवतनुप्राज्ञ कृता अनवा आद्यास्तनवः पृथ्व्यादयो येन तथाविधश्चासौ प्रा- ज्ञश्च तादृश ! तथा हे स्वाभ शोभनदीप्ते । तथा असुरसमाधिकृत् । असुराणां समाधि कृन्तति छिनत्ति तद्विघ्नकारित्वात् । तथा हे स्थिताज्ञाहिसितत्व स्थिता आज्ञाश्वाहयश्च सितत्वं च यस्य तद्विधः । आप्य भक्तजनैः प्राप्य । तथा हे दमासक्त दमे आसक्त, मा. मामित्यर्थः । स्वमव रक्ष । कथम् । व्यरि विगता अरयो यत्र तथाविध कृता । तथा हे सुरमास्थितिसम शोभनं यद्रमात्वमैश्वर्यं तस्य या स्थितिस्तस्यां सम अनुद्रिक । तथा हे संलत अविनश्वर । तथा हे अद्वयस्वन अद्वयः स्वन आज्ञारूपः शब्दो यस्य स "तादृश । तथा हे भाक्षामंतिसारतमोद्यम मया लक्ष्म्या तथा अक्षैरिन्द्रियैरा समन्तात् मंतिसारतम उद्यमः कर्तव्यता यस्य तादृश । स्वं कथंभूतः सन् । रससारमना आदौ सुराचित्तः सन् । युगलकम् ॥ ८१ ॥ ८२ ॥ वरतास्थिरसामन्त सारतातिसमाहित । सुकृताक्तासन स्वाज्ञादमाससुमतावसि ! ८३ ॥ त्वमद्य भव्य साज्ञत्वानुकृताप्राप्य सद्धर । नाम सुस्थिर मोक्षाय ममाधिरिति सा तथा ।। ८४ ॥ एतदुक्तचतुरङ्गाश्चपादपूरणश्लोकयुगलकम् ।। है शंभो, वरतया प्राधान्येन स्थिराः सामन्ताः सेबका यस्य स तादृश वरतास्थिरसा- मन्दः । तथा हे सारतातिसमाहित सारतमोत्कृष्टत्वेन अतिसमाहित । तथा हे सुकृता- समाधि क -ख