पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

देवीशतकम् । पाय वृद्धये । अष्टप्रकारा वुद्धिरिति बहुवचननिर्देशः । यदुक्तम् -'शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ज्ञानं विज्ञानमूहश्चापोहो बुद्धिः स्मृताष्टधा ॥ इति ॥ ४५ ॥ प्रवादिमतभेदेषु दृश्यस्ते महिमाश्रयः । भान्ति त्वत्रिशिखस्येव शिखानामसमाश्रयः ॥८६॥ हैं देवि, प्रवादिनां वाग्मिनां मतभेदेषु बुद्धिनानात्वेषु ते तव दृश आलोका भान्ति शो भन्ते यान्येव प्रवादिना मित्रानि ज्ञानानि तास्त्वदीया एव दृष्टय इति तात्पर्यार्थः । किं- भूता दृशः । महिमाश्रयो माहात्म्यस्थानम् ! त्वत्रिशिखस्येव भवत्रिशूलस्य यथा शिखाना कोटीनामसमा विषमास्तीक्ष्णा आश्रयो धारा भ्राजन्त एवम् । एतादृशा इत्यर्थः ॥ ८॥ यच्चेष्टया तवे स्फीतमुदारवसुः धामतः । यच्चेतो यात्यवहितमुदा रवसुधामतः ।। ८७ }} (गोमूत्रिकाबन्धः । संदष्टयमकम् ) हे देवि, तव भवत्याश्चेष्टया व्यापारेण श्रवणचिन्तन्नाध्ययनलक्षणेन इन्द्रियादेिनियमेन का। यत एषैव वागीशायाश्चेष्टा । यत उक्तम्-'मनस्युपरतं कुर्यादक्षग्राम बहिः स्थि- तम् । चित्त शुद्धौ विनिक्षिप्य सा बुद्धिर्ज्ञानगोचरे । ज्ञानभावनया, कर्म कुर्याद्वा पारमा. र्थिकम् । इति । अत एव तया चेष्टया स्फीतं विकसितं यच्चेतः अवहितं च सावधानं संयतं मनः अत एवोदारवसु परभनश्वरं धनं तच्चेतो. मुदा हर्षेणोपलक्षितं सत् थामतो ज्योतिःस्थानान्मोक्षलक्षणात्स्थानात रवसुधां शब्दामृतं याति प्राप्नोति । शब्दब्रह्मोदयं लभत इत्यर्थः । यदुक्तम्-'ओमित्येकाक्षरं ब्रह्म । तथा चोपनिषत्सु--एतदेवाक्षर ब्रह्म एतदेवाक्षरं परम् । एतदेवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ गोमूत्रिकाब न्धोऽयं यमकश्च । प्रस्तारस्त्वेकदा दर्शितः ॥ ८ ॥ सुरदेशस्य ते कीर्ति मण्डनत्वं नवन्ति यैः । वरदे शस्यते धीरैर्भवती भुवि देवता ॥ ८८ ॥ (अर्धगोमूत्रिकाबन्धयमकम् ) हे देवि वरदे, अनिमतदायिनि, यैर्धीरैरविकृतचित्तैर्भवती त्वं भुवि भूमौ संसारे देवता शरणं शस्यते स्तूयते ते पुमांसः कीर्ति प्रथां सुरदेशस्य देवसदनस्य मण्डनत्वं भूषणत्वं नयन्तिः प्रापयन्ति । ८८ ॥ तत्त्वं वीतावतततुत्तत्त्वं ततवती ततः । वित्तं वित्तवं वित्तत्वं वीतावीतवतां बत ।। ८९ ॥ (व्द्यक्षरः) हे देवि, वित् विद्ये, बत आश्चर्यं वीतावीतवतो सांख्यानाम्। वीतसंज्ञा अवीतसंज्ञा च सांख्यानाम् । प्रधानपुरुषसद्भावावेदकादेशहेतवः ते विद्यन्ते येषाम् । दतो हेतोस्तव भ- वत्या वित्तत्वं धनत्वं वित्तं ज्ञानम् । सारः इत्यर्थः । । हि ज्ञानादेव मोक्षमाचक्षते । य-