पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। निगमैरपरिच्छेद्यं क वैभवं तेऽल्पधीः क्व चाहमिति । तूष्णीकं मां भक्तिस्तव मुखरयति स्म कान्तिमत्यम्ब ।। ९८ ॥ अनुकम्पापरवशितं कम्पातटसीम्नि कल्पितावसथम् । उपनिषदां तात्पर्ये तव रूपं स्तौमि कान्तिमत्यम्ब ॥ ९९ ।। जय धरणीधरतनये जय वेणुवनाधिराट्प्रिये देवि । जय जम्भभेदिविनुते जय जगतामम्ब कान्तिमत्यम्ब ।। १०० ॥ गुणमञ्जरिपिञ्जरितं सुन्दररचितं विभूषणं सुदृशाम् । गीतिशतकं भवत्या क्षयतु कटाक्षेण कान्तिमत्यम्ब ॥ १०१ ॥ वप्ता यस्य मनीषिहारतरलः श्रीवेङ्कटेशो महा- न्माता यस्य पुनः सरोजनिलया साध्वीशिरोभूषणम् । श्रीवत्साभिजनामृताम्बुधिविधुः सोऽयं कविः सुन्दरः देव्या गीतिशतं व्यधत्त माहितं श्रीकान्तिमत्या मुदे ॥१०२॥ इति तिरुनेल्वेलिसप्रदेशवर्तिविठ्ठलपुरनिवासिभिः, अष्टगोत्रं तिरुमलैजल्लान्चकवर्तिश्रीदा- त्स्यवेङ्कटेशविद्वन्मणितनूजैः, श्रीसुन्दराचार्यकविभिरभिनिर्मितं गीतिशतकं संपूर्णम् ।

श्रीसामराजदीक्षितविरचितं त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् । अमृतजलधिमध्योल्लासिरत्नान्तरीष- प्रसृमरकिरणालीकल्पितोद्यानशोभे । सुरतरुनिकुरम्बस्पृष्टवातायनान्त- श्चलदलिपटलीभिः क्लृप्तधूपादिकृत्ये ।। १॥ मणिमयभवनेऽन्तःप्रौढमाणिक्यशाला- मधिवसति विशाला कापि ते रत्नवेदी । १ अस्य कवेः स्थानं श्रीमथुरा समयश्च विस्तीयषोडशशतकोत्तरार्धम् अनेन च पूजारत्नादयोऽनेके ग्रन्थाः कृताः एतस्य पुत्रपौत्रादयोऽपि दीक्षितकामराजव्रजराजा- दयो महाकवयो ग्रन्थकर्तारश्वासन्. एतस्य वंश्यो दीक्षितबालकृष्णशर्माद्यावधि मथुन सची वर्तते, एतत्सर्वं तत्कृतग्रन्थेभ्योऽवगम्यते.