पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् । तदुपरि कृतवासं दत्तबालार्कहासं दिशतु शुभमनन्ते देवि सिंहासनं ते ॥ २ ॥ तदुपरि धृतनानाहेतिभूषाश्मरश्मि- व्यतिकरपुनरुक्तीभूतरम्योत्तरीयाम् । गलदमलदयाम्भःसिक्तभक्तप्ररोहां प्रणवनलिनभृङ्गीं भावये ज्ञानभङ्गीम् ॥ ३ ॥ द्रुहिणहरिहराणां मौलिसंचारशीलं मणिघटितविभूषारश्मिनिर्णेजितं च । निजमतिदृषदाहं भक्तिगङ्गापयोभिः पदयुगममलं ते देवि निर्णेजयामि ॥ ४ ॥ गरुडमणिमयूखस्पर्धिदुर्वासनाथैः कुशशिशुपरिजुष्टैः स्फीतसिद्धार्थसार्थैः । उपहितसितगन्धैः साक्षतैर्वारिभिस्ते जननि चरणपद्मे पाद्यमाद्यं ददामि ॥ ५ ॥ फलकुसुमसनाथं नूत्नरत्नप्ररोहं मलयजरसदिग्धं स्निग्धमुग्धाक्षतं च । दरनियमितभक्तानीकवाञ्छाप्रदाने करसरसिरुहेऽस्मिन्नर्ध्यमर्ध्ये ददामि ॥ ६॥ शिशिरकिरणजातीपत्रदेवप्रसून- स्फुटितदलनवैलाक्रान्तकक्कोलगन्धम् । शिशिरममलमेतद्बद्धपीयूषसख्यं सलिलमखिलमातस्त्वं प्रसन्नाचमेथाः ॥ ७ ॥ नवमणिहयपीठे प्रेतपद्मस्थितापि प्रपदतरलशोभास्पृष्टसद्विष्टरश्रि । दधिमधुघृतमिश्रं त्रिर्विराजोपनीतं शशिमुखि मधुपर्के त्वं मुखान्तर्नयेथाः ॥ ८ ॥ १. कुशशिशंबो नूतना दर्भाः, नव गु० १३