पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गीतिशतकम् । अमजमनन्यगतिस्त्वां किं कुर्यास्त्वं न वेद्मयतःप्रभृति । अवने वानवने वा न विचारो मेऽस्ति कान्तिमत्यम्ब ।। ८५ ॥ किं वर्तते ममास्मान्निखिलजगन्मस्तलालितं भाग्यम् । यमिहृदयपद्महंसीं यत्त्वां सेवेऽद्य कान्तिमत्यम्ब ॥ ८६ ॥ कर्तुं जगन्ति विधिवद्भर्तं हरिवद्गिरीशवद्धर्तुम् । लीलावती त्वमेव प्रतीयसे देवि कान्तिमत्यम्ब ।। ८७ ॥ केचिद्विदन्ति भवतीं केचिन्न विदन्ति देवि सर्वमिदम् । त्वत्कृत्यं वद सत्यं किं लब्धं तेन कान्तिमत्यम्ब ॥ ८८॥ शास्त्राणि कुक्षिपूर्त्यै स्फूर्त्यै निगमाश्च कर्मणां किं तैः ।। किं तव तत्त्वं ज्ञेयं यैस्त्वत्कृपयैव कान्तिमत्यम्ब ।। ८९ ॥ किं प्रार्थये पुनः पुनरवने भवतीं विना विचारः स्यात् । कस्याः क इति विदन्नपि दूये मोहेन कान्तिमत्यम्ब ।। ९० ॥ विदुषस्त्वां शरणं मे शास्त्रश्रमलेशवार्तयापि कृतम् । करजुषि नवनीते कि दुग्धविचारेण कान्तिमत्यम्ब ।। ९१ ॥ प्रणवोपनिषन्निगमागमयोगिमनस्विवातितुङ्गेषु । भाहि प्रभेव तरणेर्मम हृदि निम्नेऽपि कान्तिमत्यम्ब ।। ९२ ।। स्फुटितारुणमणिशोभं त्रुटिताभिनवप्रवालमृदुलत्वम् । श्रुतिशिखरशेखरं ते चरणाब्जं स्तौमि कान्तिमत्यम्ब ।। ९३ ।। तव चरणाम्बुजभजनादमृतरसस्यन्दिनः कदाप्यन्यत् । स्वप्नेऽपि किंचिदपि मे मा स्म भवद्देवि कान्तिमत्यम्ब ॥ ९४ ॥ विस्मापनं पुरारेरमादृग्जीविकां परात्परमम् । सुषुमामयं स्वरूपं सदा निषेवेय कान्तिमत्यम्ब ।। ९५ ।। मङ्गलमस्त्विति पिष्टं पिनष्टि गीः सर्वमङ्गलायास्ते । वशितजयायाश्च तथा जयेति वादोऽपि कान्तिमत्यम्ब ॥ ९६ ॥ आशासितुर्विभूत्यै भवति भवत्यै हि मङ्गलाशास्तिः । स्वामिसमृद्ध्याशंसा भृत्योन्नत्यै हि कान्तिमत्यम्ब ॥ ९७ ॥