पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गीतिशतकम् । नरजन्मैव वरं त्वद्भजनं येन क्रियेत चेदस्मात् । किमवरमेवं नो चेदतस्तदेवास्तु कान्तिमत्यम्ब ।। ५७ ॥ यद्दुर्लभं सुरैरपि तन्नरजन्मादिशो नमान्येतत् । सार्थय दानाद्भक्तेर्व्यर्थय मान्येन कान्तिमत्यम्ब ।। ५८ ॥ जीवति पञ्चभिरेभिर्न विनास्त्येभिर्जनस्तनुं भजते । तदपि तदासीनां त्वां दरमपि नो वेत्ति कान्तिमत्यम्ब ।। ५९ ।। यत्प्रेमद्विपवदने षड्वदने वा कुरुष्व तन्मयि ते । जात्वपि मा भूद्भेदः स्तोकेष्वरमासु कान्तिमत्यम्ब ।। ६०॥ शम्बररुहरुचिवदने शम्बररिपुजीविके हिमाद्रिसुते । अम्बरमध्ये बम्बरडम्बरचिकुरेऽव कान्तिमत्यम्ब ॥ ६१ ।। मन्मानसपाठीनं कलिपुलिने क्रोधभानुसंतते। सिञ्च परितो भ्रमन्तं कृपोर्मिभिर्देवि कान्तिसत्यम्ब ।। ६२ ।। यमिनः क्व वेद मुकुटान्यपि भवतीं भावयन्ति वा नो वा। यद्येवं मम हृदयं वेत्तु कथं ब्रूहि कान्तिमत्यन्च ।। ६३ ।। क्लिश्यत्ययं जनो बत जननाद्यैरित्यहं श्रितो भवतीम् । तत्राप्येवं यदि वद तव किं महिमात्र कान्तिमत्यम्ब ।। ६४ ॥ वृजिनानि सन्तु किमतस्तेषां धूत्यै न किं भवेद्वद ते । स्मरणं दृषदुत्क्षेपणमिव काकगणस्य कान्तिमत्यम्ब ।। ६५ ।। प्रसरति तव प्रसादे किमलभ्यं व्यत्यये तु किं लभ्यम् । लभ्यमलभ्यं किं नस्तने विना देवि कान्तिमत्यम्ब ॥ ६६ ।। किं चिन्तयामि संविच्छरदुदयं त्वत्पदच्छलं कतकम् । घृष्टं यदि प्रसीदेद्धृदयजलं मेऽद्य कान्तिमत्यम्बः॥ ६७ ॥ विभजतु तव पदयुगली हंसीयोगीन्द्रमानसैकचरी । संविदसंवित्पयसी मिलिते हृदि मेऽद्य कान्तिमत्यम्ब ॥ ६८॥ कियदायुस्तत्रार्धं स्वप्नेन हृतं कियच्च बाल्याद्यैः । कियदस्ति केन भजनं तृप्तिस्तव केन कान्तिमत्यम्ब ।। ६९ ॥ वेद्मि न धर्ममधर्मं कायक्लेशोऽस्त्वदो विचारफलम् । जानाम्येकं भजनं तव शुभदं हीति कान्तिमत्यम्ब ॥ ७० ॥