पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गीतिशतकम् । भवदवशिखाभिवीतं शीतलयेर्म कटाक्षविक्षेपैः । कादम्बिनीव सलिलैः शिखण्डिनं देवि कान्तिमत्यम्ब ॥ ३० ॥ त्वद्गुणपयःकणं मे निपीय मुक्तेरलंक्रियां गिरतु । चेतःशुक्तिर्मुक्तां भक्तिमिषां देवि कान्तिमत्यम्ब ।। ३१ ।। गुणगणमहामणीनामागमपाथोधिजन्मभाजां ते। गुणतां कदा नु भजतां मम धिषणा देवि कान्तिमत्यम्ब ॥ ३२॥ पाटीरचर्चितस्तनि कोटीरकृतक्षपाधिराट्कलिके । वीटीरसेन कविताधाटीं कुरु मेऽद्य कान्तिमत्यम्ब ।। ३३ ।। तव करुणां किं ब्रूमस्त्वामप्येषानवेक्ष्य तूष्णीकाम् । ऊरीकरोति पापिनमपि विनतं देवि कान्तिमत्यम्ब ॥ ३४ ॥ ईशोऽपि विना भवतीं न चलितुमपि किं पुनर्वयं शक्ताः । किमुपेक्षसे प्रसीद क्षितिधरकन्येऽद्य कान्तिमत्यम्ब ।। ३५ ॥ मन्मानसाम्रशाखी पल्लवितः पुष्पितोऽनुरागेण । हर्षेण च प्रसादाल्लघु तव फलिनोऽस्तु कान्तिमत्यम्ब ॥ ३६ ।। ध्यानाम्बरवसतेर्मम मानसमेघस्य दैन्यवर्षस्य ।। पदयुगली तब शम्पा लक्ष्मीं विदधातुः कान्तिमत्यम्ब ।। ३७ ।। कलितपनभानुतप्तं चित्तचकोरं ममातिशीताभिः । जीवय कटाक्षदम्भज्योत्स्नाभिर्देवि कान्तिमत्यम्ब ॥ ३८ ॥ ज्योत्स्नासघ्रीचीभिर्दुग्धश्रीभिः कटाक्षवीचीभिः । शीतलयानीचीभिः कृपया मां देवि कान्तिमत्यम्ब ॥ ३९ ॥ रुष्टा त्वमागसा यदि तर्जय दृष्ट्यापि नेक्षसे यदि माम् । बाल इव लोलचक्षुः कं शरणं यामि कान्तिमत्यम्ब ॥ ४० ॥ विभवः के किं कर्तुं प्रभवः करुणा न चेत्तवान्तेऽपि । नोच्छ्वसितुं कृतमेभिस्त्वामीश्वरि नौमि कान्तिमत्यम्ब ॥ ४१ ॥ जित्वा मदमुखरिपुगणमित्या त्वद्भक्तभावसाम्राज्यम् । गत्वा सुखं जनोऽयं वर्तेत कदा नु कान्तिमत्यम्ब ॥ ४२ ॥