पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला धुतकदने कृतमदने भृशमदने योगिशर्वभक्तानाम् । मणिसदने शुभरदने शशिवदने पाहि कान्तिमत्यम्ब ।। १७ ।। गिरितनुजे हतदनुजे वरमनुद्धाजेभिधे च हर्यनुजे । गुहतनुजेऽवितमनुजे कुरु करुणां देवि कान्तिमत्यम्ब ॥ १८ ॥ गजगमने रिपुदमने हरकमने क्लृप्तपापकृच्छमने । कलिजनने मयि दयया प्रसीद हे देवि कान्तिमत्यम्ब ॥ १९ ॥ यन्मानसे पदाब्जं तव संविद्भास्वदाभयाभाति । तत्पाददासदासकदासत्वं नौमि कान्तिमत्यम्ब ॥ २० ॥ दुष्करदुष्कृतराशेर्न बिभेमि शिवे यदि प्रसादस्ते । दलने दृषदां टङ्कः कल्पेत न किं नु कान्तिमत्यम्ब ॥ २१ ॥ कोमलदेहं किमपि श्यामलशोभं शरन्मृगाङ्कमुखम् । रूपं तव हृदये मम दीपश्रियमेतु कान्तिमत्यम्ब ।। २२ ।। किंचनवञ्चनदक्षं पञ्चशरारेः प्रपञ्चजीवातुम् । चञ्चलमञ्चलमक्ष्णोरयि मयि कुरु देवि कान्तिमत्यम्ब ॥ २३ ॥ अञ्चति यं त्वदपाङ्गः किंचित्तस्यैव कुम्भदासत्वे । अहमहमिकया विबुधाः कलहं कलयन्ति कान्तिमत्यम्ब ।। २४ ॥ किमिदं वदाद्भुतं ते कस्मिंश्चिल्लक्षिते कटाक्षेण । बृहादीनां हृदयं दीनत्वं याति कान्तिमत्यम्ब ।। २५ ।। प्रायो रायोपचिते मायोपायोल्वणासुरक्षपणे । गेयो जायोरुबले श्रेयो भूयोऽस्तु कान्तिमत्यम्ब ॥ २६ ॥ करणं शरणं तक लसदलकं कुलकं गिरीशभाग्यानाम् । सरलं विरलं जयति सकरुणं तरुणां हि कान्तिमत्यम्ब ॥ २७ ॥ शंकरि नमांसि वाणी किंकरि दैतेयराड्मयंकरिते । करवै मुरवैर्यनुजे पुरवैर्यभिकेऽद्य कान्तिमत्यम्ब ॥ २८ ॥ तव सेवां भुवि के वा नाकाङ्क्षन्ते क्षमाभृतस्तनये । स्वमिव भवेयुर्यदि ते भजन्ति ये यां हि कान्तिमत्यम्ब ।। २९ ॥