पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

देवीशतकम् । सेनया शत्रुपृतनया न जिता नामिभूता । अपि च मुग्धतया कृशतया युक्तः स. माश्च- न्द्रो हर महादेवमाश्रितः संश्लिष्टः सन् स्फुटं नूनं या देव्या समा तुल्या मनोज्ञता रामणीयकानि यथाचे प्रार्थयामास । तत्समलावण्येच्छश्चन्द्रः स्फुटं हरं याचते ॥ २७ ॥ [यो च देवी] सा भावक्षालवर्या । क्षालनं क्षालः भावस्य चेतसः क्षालो नैर्मल्यं तत्र व या वर्या श्रेष्ठा । तथा नुतविभवितनुः । नुता विभविनी महाप्रभावा तनुर्मूर्तिर्यस्याः । वलक्षावमासा । वलक्षः शुद्धोऽवभासः प्रभा यस्याः । शुद्धप्रकाशरूपेत्यर्थः । किं च जानानस्य ज्ञानिनः आशयप्रा अभिलाषपूरणी । तथा नवनलिनवनप्रायशस्यानना । प्र. त्यग्रकमलखण्डतुल्य स्तुत्यमुखी । तथा अजा जन्मरहिता ? किं चाननस्था मुखगता सतीं सातं वर्म श्रेष्ठः कवचः । सदैव सतां वाग्रूपेण परमं सेनहनं सेत्यर्थः । तथा रहसि विजने रसी रसिको योऽसौ हरः शंभुस्तस्य यानि स्थाने नर्माण अवसरे परिहसितानि तानि अवतंसः कर्णाभरणं यस्याः सा । रणत्रा सङ्ग्रामत्रायिणी । अपरं मतनमनतमत्राणरक्ता । अतिशयेन मतमभिप्रेतं नमनं देवीप्रणामो येषां तेषां त्राणे रक्ता सक्ता यत्तो दयापा दयां करुणा पाति रक्षति आप्नोति वा । प्रणतानां दयापरेति भावः ॥ २८॥ उपासते कृष्टिकृतोदयां यो जना सदाराधनमीहमानाः । शंभोः प्रसिद्धा तनुतां वहन्ती गौरी हितं सा भवतां विधेयात् ॥२९॥ (अर्थत्रयवाची) सा गौरी मृडानी भवतां युष्माकं हितमनुकूलं विधेयात्कुर्यात् । यां जना लोका उपा- -सते सेवन्ते । यतः कृष्टिकृतोदयाम् । कृष्टीनां सूरीणां कृतो विहित उदय आविर्भावो यया ताम् । कीदृशा जनाः । सदा सततं सच्छोभनं वाराधनं संमुखीकरणं सेवामीहमाना: काङ्क्षन्तः । किंभूता देवी । शंभोः शर्वस्य तनुतां कायत्वं वहन्ती बिभ्राणा । प्रसिद्धा प्र. थिता ॥ अथ च सा गौर्वाणी ईहितमभिमतं विधेयात् । कीदृशी । कृष्ठिनिः सूरिभिः कृत उदयो विकासो यस्याः । शंभोर्ब्रह्मण अंतनुतामकृशतां वहन्ती प्रसिद्धा । तस्मिन्स्त्रीरूपे णापि सुव्यक्ता स्थिता वागिति भावः । 'शंभू बह्मेश्वरौ ज्ञेयौ । यां जना उपासते । कीदृशाः । सतां साधूनामाराधनं चित्तग्रहणमीहमाना अभिलषन्तः ।। अन्यन सा गौर्भू वः ईहितं विधेयात् । यां जना उपासते अधितिष्ठन्ति । कीदृशाः । सदाराः सकलत्राः । धनं वितमीहमानाः प्रार्थयमानाः । कीदृशीं क्ष्माम् । कृष्टिभिः कर्षणैर्हलविलेखनैः कृत सदयः कृत्यागमः । देवी च वाङिमयी (मही) मूर्तिस्पीति वाक्यार्थः ॥ २९ ॥ यां सद्य एव त्रिदशैः पुमांसः समा नमस्यन्ति सदानमोगा । अधानि अस्याः प्रथमता विपक्षैः समानमस्यन्ति सदा नभोगाः ॥ ३० ॥ यस्याः प्रभावो धुसदां विपक्षसेना वधानन्दयित्ताहरस्य मनोम्बुजस्यावहतु श्रियै वः सेनावधानं दयिता हरस्य ॥ ३१ ॥ (संदानितकम्) मंथ गुरु २