पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । जितानया या नताजितारसाततसारता । न सावना नावसानयातनारिरिना तया ॥ २५ ॥ (सर्वतोभद्रः) मनोभवारातिमनोमिरामया जरामयापाकरणैकढक्षया । मदक्षयान्निर्मलतां ददानया सदा नयास्था क्रियतां तवार्यया।॥२६॥ (विशेषकम् ) तव भवतस्वया आर्यया गौर्या नयस्यास्था नीत्यवस्थितिः सदा सर्वकालं क्रियता विधीयताम् । यया देव्या सुरवैरिषु देवशत्रुषुः कृतास्पदा लब्धप्रतिष्ठा संपत्समृद्धिरघानि जघ्ने हृता । या च वाड्मयी परापश्यन्तीमध्यमावैखरीरूपा अघानि पापानि व्यसनानि का हन्ति हिनस्ति । केन । सुरवैः साधुशब्दैः । सा च दूरहननादिषुरिवेधुः ॥ २४ ॥ था जितानया अविद्यमानों नयो नीतिर्येषां ते जितायया। तथा या देवी नताजिता रसाततसारता । नताना भक्तानां आजितः सङ्ग्रामात् यस्तारस्तारण: विजयस्तत्र या सातता सविस्तारा । आततनमातत इति । सारता दृढता। बहुतरं दार्ढ्य सा देवीत्यर्थः न सावना न । सहावनेन रक्षणेन वर्तते इति सावना न न सावना किं तु सावनैव, भक्तानां सरक्षणाः । किं च अक्सानयातनारिः अवसाने अन्तकाले या यातना दुष्कृति- विपाकास्तासामरिः शत्रुः विनाशिनी ।इना स्वामिनी । सर्वतोभद्र एषः । बन्धस्तु प्रसिद्ध एव॥२५॥ तया देव्या मनोभवारातिमनोभिरामया चित्तजन्मशत्रुचेतोनुकूलया त्रिनयनचित्तहा- विकी तथा सामाकरणैकदक्षया जरा पलितं आमया व्याधयस्तेषामपाकरणं तिरस्कारः विनाश तन्त्र दक्षया बजुरया । अन्यच्च मदक्षयादहंकारविध विरजस्कत्वं ददानया वितरन्त्या प्रयच्छन्त्या । विशेषकमिदम् ॥ २६ ॥ समाययाविन्द्रहिताय या रणे समायया या न जितारिसेनया। सं मा ययाचे हरमाश्रितः स्फुटं समा यया मुग्धतया मनोज्ञताः२७॥ सा भावक्षालवर्या नुतविभक्तिनुर्या वलक्षावभासा जानानस्याशयमा नवनलिनवनप्रायशस्याननाजा सातं वर्माननस्था रहसि रसिहरस्थाननर्मावतंसा पायादक्त्ता रणत्रा मतनमनतमत्राणरक्ता दयापा ॥ २८ ॥ (प्रतिपादं प्रतिलोमानुलोमः) (सदानितकम्) सा देवी अक्ता व्यक्ता पायादव्यात् । येन्द्रहिताय शक्रश्रेयोर्ध रणं सङ्ग्रामं समाययौ समाजगाम । एवं व्यकाव्यक्तस्वरूपिणी देवीत्युक्तं भवति । या समायया सकपटयारि- )