पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। ...सा इना ईश्वरी हरस्य गिरीशस्य दयिता वल्लभा वो भवतां श्रिय लक्ष्म्यर्थमवधान प्रयत्नमावहतु विदधातु ! यो पुमांसो नराः सद्य एव प्रणतेः समनन्तरमेव त्रिदर्शदेवैः समास्तुल्या नमस्यन्ति प्रणमन्तिः । किं च सदानभोगाः । सह दानेन त्यागेन भोगैर्विष- यातुभवैश्च वर्तन्ते ये ते। तथा यस्या देव्याः प्रणताः प्रह्नाः नभोगा नभसि गता इति विपक्षैः शत्रुभिः समान सहाघानि पापानि सदा सर्वकालमस्यन्ति क्षिपन्ति ॥ ३०॥ तथा यस्या देव्याः प्रभावो माहात्म्यं द्युसदां सुराणां विपक्षसेना वधानन्दयिता अरि- रूथिनीवधेन हननेनानन्दयिता परितोषयिता । किं चास्य मनोम्बुजस्य चेतःकमलस्य अहरिवाहः । विकासकत्वात् । एतद्देव्याः प्रभावस्यं वा विशेषणम् ॥ ३१ ॥ सुरा जिता भावितदेवराजद्विपक्षमा यात रणादभीतम् । स्वापं न वो धाम हितं न नाम सदैवसेना भवतोहितानाम् ॥ ३२ ॥ सुराजिता भावितदेवराजद्विपक्षमाया तरणादभीतम् । स्वापन्नबोधामहितं ननाम सदैव सेना भवतो हितानाम् ॥ ३३ ॥ (महायमकम् ) सुरानिति द्वेषिजनैरभिद्रुतानुदाहरद्या स्वयमावोद्यता । शिवोऽद्य तापप्रशमस्तया तव प्रशस्तया तत्त्वदृशा विधीयताम् ॥ ३४ ॥ (विशेषकमिदम्) तथा देव्या प्रशस्तया मङ्गलभूतया तव भवतः अद्यास्मिन्नहनि तत्त्वदृशा सारज्ञानेन शिवः श्रेयाननुकूल "मसुख इति यावत् । तापप्रशम आध्यात्मिकाधिदैविकाधि- मौलिक शेषत्रयस्य प्रशमो विनाशों विधीयतां क्रियताम् । या देवी सुरान्देवान्द्वेषिजनैः शत्रुजनैरमितान्पलायितान्स्वममाहबोधता सङ्ग्रामसंनद्धा सती इति वक्ष्यमाणप्रकारेणो- दाहरदवोचत् । कथामित्याह- है जित्ता अभिभूताः सुरो देवाः, रणात्सङ्ग्रामादभीतं निर्भय कृत्वा यात गच्छत ! मा भूद्भवतां सङ्ग्राममयमित्यर्थः । भाविता देवराजद्विपस्य ऐरावणस्य क्षमा अशक्तता यैस्ते । अपरं वो भवतां हितं धाम अनुकूलं स्थानं न न नाम स्वापम् । सुप्रापमेवेत्यर्थः । अन्यच्च या देवसेना सह देवेन इनेन प्रभुणा च सुरा- जिताः सुष्ठु भ्राजिता ऊहितानां तर्कितानां चित्तविषयाणां शत्रूणांमध्ये भवतः संपत्.... "समस्तश्लोक्यमनान्महायमकमिदम् ॥ ३९ ॥ ३३ ॥ ३४ ॥ वक्त्रं बिभ्रत्युपहितचन्द्रायासं या संमोहप्रशमनसूर्याकारा । कारानीतामरमरिमाचिक्षेप क्षेपत्यक्ता रणभुवि सा वः पायात् ।। ३५॥ (काञ्चीयमकम्) सा. देवी वो युष्मान्पायाद । या उपहितचन्द्रायासं वक्त्रं बिभ्रती स्वकान्त्यतिशयेनो- पहितोदत्तश्चन्द्रस्य शशाकस्यायासो ग्लानिर्येन तादृशं वक्त्रं मुखं बिभ्रती धारयन्ती । तथा