पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । मध्यस्थारुणरत्नकान्तिरुचिरां मुक्तामुगोद्भासितां दैवाद्भार्गवजीवमध्यगरवेर्लक्ष्मीमधः कुर्वतीम् । उत्सिक्त्ताधरबिम्बकान्तिविसरैर्मौमीभवन्मौक्तिकां मद्देत्तामुररीकुरुष्व गिरिजे नासाविभूषामिमाम् ॥ ४५ ॥ उडुकृतपरिवेषस्पर्धया शीतभानो- रिव विरचितदेहद्वन्द्वमादित्यबिम्बम् । अरुणमणिसमुद्यत्प्रान्तविभ्राजिमुक्तं श्रवसि परिनिधेहि स्वर्णताटङ्कयुग्मम् ॥ ४६॥ मरकतवरपद्मरागहीरोत्थितगुलिकात्रितयावनद्धमध्यम् । विततविमलमौक्तिकं च कण्ठाभरणमिदं गिरिजे समर्पयामि ॥ ४७ ॥ नानादेशसमुत्थितैर्मणिगणप्रोद्यत्प्रभामण्डल- व्याप्तैराभरणैर्विराजितगलां मुक्ताछटालंकृताम् । मध्यस्थारुणरत्नकान्तिरुचिरां प्रान्तस्थमुक्ताफल- व्रातामम्ब चतुष्किकां परशिवे वक्षःस्थले स्थापय । ४८ ॥ अन्योन्यं प्लावयन्ती सततपरिचलत्कान्तिकल्लोलजालैः कुर्वाणा मज्जदन्तःकरणविमलतां शोभितेव त्रिवेणी । मुक्ताभिः पद्मरागैर्मरकतमणिभिर्निर्मिता दीप्यमानै- र्नित्यं हारत्रयी ते परशिवरसिके चेतसि द्योततां नः ॥ ४९ ॥ करसरसिजनाले विस्फुरत्कान्तिजाले विलसदमलशोभे चञ्चदीशाक्षिलोमे । विविधमणिमयूखोद्भासितं देवि दुर्गे कनककटकयुग्मं बाहुयुग्मे निधेहि ॥ ५० ॥ व्यालम्बमानसितपट्टकगुच्छशोभि स्फूर्जन्मणीघटितहारविरोचमानम् । मातर्महेशमहिले तक बाहुमूले केयूरकद्वयमिदं विनिवेशयामि ॥ ५१ ॥