पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। विततनिजमयूखैर्निर्मितामिन्द्रनीलै- र्विजितकमलनालालीनमत्तालिमालाम् । मणिगणखचिताभ्यां कङ्कणाभ्यामुपेतां कलय वलयराजी हस्तमूले महेशिः ॥ ५२ ।। नीलपट्टमृदुगुच्छशोभिताबद्धनैकमणिजालमञ्जुलाम् । अर्पयामि बलंयात्पुरःसरे विस्फुरत्कनकतैतृपालिकाम् ॥ ५३ ।। आलबालमिव पुष्पधन्वना बालविद्रुमलतासु निर्मितम् । अङ्गुलीषु विनिधीयतां शनैरङ्गुलीयकमिदं मदर्पितम् ॥ ५४ ॥ विजितहरमनोभूमत्तमातङ्गकुम्भ- स्थलविलुलितकूजत्किङ्किणीजालतुल्याम् । अविरतकलनादैरीशचेतो हरन्तीं विविधमणिनिबद्धां मेखलामर्पयामि ॥ ५५ ॥ व्यालम्बमानवरमौक्तिकगुच्छशोभि- विभ्राजिहाटकपुटद्वयरोचमानम् । हेम्ना विनिर्मितमनेकमणिप्रबन्धं नीवीनिबन्धनगुणं विनिवेदयामि ॥ ५६ ॥ विनिहितनवलाक्षापङ्कबालातपौधे मरकतमणिराजीमञ्जुमञ्जीरघोषे । अरुणमणिसमुद्यत्कान्तिधाराविचित्र- स्तव चरणसरोजे हंसकः प्रीतिमेतु ।। ५७ ।। निबद्धशितिपट्टकप्रवरगुच्छसंशोभितां कलक्वणितमञ्जुलां गिरिशचित्तसंमोहनीम् । अमन्दमणिमण्डलीविमलकान्तिकिर्मीरितां निधेहि पदपङ्कजे कनकघुङ्घु रूमम्बिके ॥ ५८ ॥ विस्फुरत्सहजरागरञ्जिते शिञ्जितेन कलितां सखीजनैः। पद्मरागमणिनूपुरद्वयीमर्पयामि तव पादपङ्कजे ।। ५९ ॥ १ 'ललित' क्र.