पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। मुक्तारत्नविचित्रहेमरचनाचारुप्रभाभास्वरं नीलं कञ्चुकमर्पयामि गिरिशप्राणप्रिये सुन्दरि ॥ ३७ ।। विलुलितचिकुरेण च्छादितांसप्रदेशे मणिनिकरविराजत्पादुकान्यस्तपादे । सुललितमवलम्ब्य द्राक्सखीमंसदेशे गिरिशगृहिणि भूषामण्डपाय प्रयाहि ।। ३८ ॥ लसत्कनककुट्टिमस्फुरदमन्दमुक्तावली- समुल्लसितकान्तिभिः कलितशक्रचापव्रजे । महाभरणमण्डपे निहितहेमसिंहासनं सखीजनसमावृतं समधितिष्ठ कात्यायनि ॥ ३९ ॥ स्निग्धं कङ्कतिकामुखेन शनकैः संशोध्य केशोत्करं सीमन्तं विरचय्य चारु विमलं सिन्दूररेखान्वितम् मुक्ताभिर्ग्रथितालकां मणिचितैः सौवर्णसूत्रैः स्फुटं प्रान्ते मौक्तिकगुच्छकोपलतिकां नश्यामि वेणीमिमाम् ॥ ४० ॥ विलम्बिवेणीभुजगोत्तमाङ्गस्फुरन्मणिभ्रान्तिमुपानयन्तम् । स्वरोचिषोल्लासितकेशपाशं महेशि चूडामणिमर्पयामि ॥ ४१ ॥ त्वामाश्रयद्भिः कबरीतमिस्रैर्बन्दीकृतं द्रागिव भानुबिम्बम् । मृडानि चूडामणिमादधानं वन्दामहे तावकमुत्तमाङ्गम् ॥ ४२ ॥ स्वमध्यनद्धहाटकस्फुरन्मणिप्रभाकुलं विलम्बिमौक्तिकच्छटाविराजितं समन्ततः । निबद्धलक्षचक्षुषा भवेन भूरि भावितं समर्पयामि भास्वरं भवानि मालभूषणम् ॥ ४३ ॥ मीनाम्भोरुहखञ्जरीटसुषमाविस्तारविस्मारके कुर्वाणे किल कामवैरिमनसः कंदर्पबाणप्रभाम् । भाध्वीपानमदारुणेऽतिचपले दीर्घे दृगम्भोरुहे देवि स्वर्णशलाकयोर्जितमिदं दिव्याञ्जनं दीयताम् ॥४४॥ १ 'चिलसत्सिन्द' क २ 'खनद्धमध्यहाटक' क.