पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। सहस्रनयनो गुहः सहसहस्ररश्मिर्विधु- बृहस्पतिरुताप्पतिः ससुरसिद्धविद्याधराः । भवत्पदपरायणाः श्रियमिमा ययुः प्रार्थिनां भवान्सुरतरुर्द्दशं शिव(दिश) शिवां शिवावल्लभः ॥ ८ ॥ सहस्रेति । हे रुद्र, सहस्रनयन इन्द्रः, गुहः स्कन्दः, सहस्रं रश्मयो यस्यासौ सह- स्ररश्मिः सूर्यः, तेन सहवर्तमान एवं(भूतो] विधुश्चन्द्रः, बृहस्पतिः । उतशब्दोऽप्यर्थः । अप्पतिरपा पतिवरुणः, शक्राद्या इति शेषः(?) । ससुरसिद्धविद्याधराः सर्वे तत्तद्योगजना भवत्पदं भवदुपास्यं ब्रह्म परमयनमाश्रयों येषां ते भवत्पदपरायणाः सन्त इमां तद्योग्यां श्रियं संपदं ययुः प्रापुः । यतो भवान्प्रार्थिनां सुरतरुः कल्पवृक्षः । सुचिन्तितमनोरथ- प्रदः । हे शिवावल्लभ उमाकान्त, त्वं मह्यं शिवा मङ्गलां दृशं दृष्टिं दिश देहि ।। तव प्रियतमादतिप्रियतमं सदैवान्तरं पयस्युपहितं घृतं वयमिव श्रियोवल्लभम् । विभिद्य लघुबुद्धयः स्वपरपक्षलक्ष्यायितं पठन्ति हि लुठन्ति ते शठहृदः शुचा शुण्ठिताः ॥ ९ ॥ तवेति । लघुवुद्धयः क्षिप्रबुद्धयः । सूक्ष्मार्थदर्शिन इति यावत् । 'लघु क्षिप्रमर हुतम् इत्यमरः । एवंविधाः पण्डिताः तब प्रियतमावस्तुतोऽतिप्रियतमं निरुपाधिविषयम् एका- न्तभक्तत्वात् । तदुक्तम्- 'एकान्तानां न कस्यचिदर्थे नारायणो देवः सर्वमन्यत्तदर्थ- कम्' इति । सदैव स्वपरपक्षयोः पूर्वपक्षसिद्धान्तयोः लक्ष्यवत् आचरितमान्तरमन्तरे व- र्तमानं कथमिव पयस्युपहितं. स्वयं स्वेच्छया रतं धृतमिव श्रियो वल्लभं लक्ष्मीकान्तं वि- मिद्य वेद्य । तन्मीमांसा यथा क्षीरे टत्स्थितं घृतं क्षीरादिविवेक्षेण (केन) जानन्ति तथा त्वदन्तर्गतं ब्रह्म ज्ञात्वा पठन्ति । शिष्येभ्य उपदिशन्तीति भावः । शठहृदः परव- ञ्चनचित्ताः ये के ब्रह्मवादिनस्ते शुचा शोकेन शुण्ठिताः स्तम्भिताः सन्तो लुठन्ति । नित्यं निरये पतन्तीत्यर्थः । उक्तं च श्रीमद्भागवते -'एवं तत्समुपासीना न मुह्यन्ति शुचार्पिताः' इति । तथा जीवात्मभेदज्ञानमेव मोक्षसाधनं नाद्वैतज्ञानमिति भावः ।। निवासनिलयश्चिता तव शिरस्ततिर्मालिका कपालमपि ते करे त्वमशिवोऽस्यनन्तर्धियाम् । तथापि भवतः पदं शिव शिवेत्यदो जल्पता- मकिंचन न किंचनावृजिनमस्ति भस्मीभवेत् ॥ १० ॥ निवासेति । हे महेश चिता श्मशानभूमिः तव निवासनिलयो निवासस्याश्रयः शिर- स्ततिः शिरम्परम्परा तव मालिका, ते करे कपालमपि विद्यते, त्वमनन्तर्धियां बहिर्दृ।