पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शिवस्तुतिः । ष्ठीनां पामराणामशिवोऽमङ्गलोऽसि । यधप्येवम् तथापि हे अकिंचन अविद्यमानकिंचिन, किमप्यासमन्ताद्वर्तमान पापं नास्ति । कि तु सर्व भस्मीभवेदित्यर्थः ।। त्वमेव किल कामधक्सकलकाममापूरय- न्सदा त्रिनयनो भयान्वहसि चात्रिनेत्रोद्भवम् । विषं विषधरान्दधपिबसि तेन चानन्दवा- न्विरुद्धचरितोचिता जगदधीश ते भिक्षुता ॥११॥ त्वमेवेति । हे विरुद्धचरित, त्वमेव कामं कन्दर्ंप दहतीति कामधक् किल सकलानां योग्यानां काममभिलाषमापूरयन्वर्तसे । अन शब्दमात्रसामान्येन विरोधभावः । अर्थ- मेदाद्विरोधपरिहारः । सदा त्रिनयनास्त्रिनेत्रः, अत्रिनेत्रोद्भवं चन्द्र वहसि च । विषधरान् दधत् सन् विषं पिबसि तेन विषपानेनानन्दवांश्च भवसि हे जगदधीश, ते भिक्षुता ज्याय्याः । अत्र विरोधाभासोऽलंकारः ।। नमः शिवशिवाशिवाशिव शिवार्थ कृन्ताशिवं नमो हर हराहरहरहरान्तरीं में दृशम् । नमो भव भवामवप्रभव भूतये ते भवन् . नमो मृड नमो नमो नम उमेश तुभ्यं नमः ॥ १२ ॥ नमः शिवेति । हे शिव शिव, शिवानां योग्यजीवानां शिवं करोतीति (शिवं तीति) शिवः अस संबुद्धिः शिव । तत्करोति तदाचष्टे' इति णिजन्ताच्छिवयतेः सु. ब्धातोः 'अप्रत्ययात्' इति अप्रत्ययः (१)। हे अशिवाशिव, अशिवानामयोग्यजीवानाम- शुभोऽशुभकस्तत्संबुद्धिः । नमस्तुभ्यामिति शेषः । हे शिवार्ध, शिवा अर्धे यस्यासौ त थोक्तः तत्संबुद्धिः त्वं मम अशिवममङ्गलं कृन्त नाशय । हे हर हर। आदराद्विरुक्तिः । तुभ्यं नमः । अहरहः निरन्तरं वीप्सायामव्ययीभावः (१) । अन्तरोऽन्तरे सर्व यस्य रे- स्यत (१) इत्यन्तरो विष्णुसत्संबन्धिनीं दृशं ज्ञान मह्यमाहर देहि । हे अभव, तुभ्यं नमः हे अभवप्रभव । अभवस्य प्रभव उत्पादको यस्य सोऽभवप्रभवस्तत्संबुद्धिः तुभ्यं नमः हे भवन् , मद्भूतये भवेति । हे मृड, तुभ्यं नमो नमः । अन्नादरनैरन्तर्याभ्यां नमो नमः कर्तव्यमिति पुनः पुनरुक्तिः ।। सतां श्रवणपद्धतिं सरतु संनतोक्तत्यसौ शिवस्य करुणाङ्कुराप्रतिकृतात्सदा सोदिता । १. अस्य नियाम् इत्यविकारे विधानाभिन्त्यमिदम् , लस्मात्पचादेराकृतिगणनादर प्रत्ययो बोध्यः