पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शिवस्तुतिः । विमुक्तिपरमेति । प्रसिद्धा निगमवेदिनो वामदेवादय ऋषयः भगवदैव झानमुक्तिवैरा- ग्यादिगुणवतैक वया उपशिक्षिताः सन्तो विमुक्तिपरमाध्वनां विमुक्तौ परमा असक्ता एते- पामध्वनामागमभूतानां षडध्वनां षड्दर्शनानामास्पदं विषयत्वेनाश्रयीभूतं तव पदं पद्यत इति पदं ज्ञेयं परं ब्रह्मतत्त्वरूपं दा कथंचिन्महतायासेन यथाकथंचिद् केनवित्प्रकारेण न तु सामस्त्येन संविद्रते जानन्ति । 'समो सम्वृच्छिप्रच्छिंस्वरवर्तिश्रुविदिभ्यः' इति विदे- रात्मनेपदम् । 'वैतेर्विभाषा' इति रुट् । यद्वा संविद्रते संविदि ज्ञाने रतिर्यस्य स संविद्रति- स्तस्य संबुद्धः तदा जानन्तीति शेषः । हे उमेश विरलान्तराः विरलमल्पविषयमन्तरं सनो येषां वे विरलान्तरा वयं तु विशेषेण तत् परं ब्रह्म तव स्वरूपं कर्थ मन्महे जानी- महे । यदा विज्ञा वामदेवायो भवदुपदिष्टाः सन्तस्तदुपास्यं परं ब्रह्म त्वस्वरूपं वा का- र्त्स्न्येन ज्ञातुमशक्तास्तदाल्पज्ञा वयं कथं विशेषेण सामस्त्येन ज्ञानीमहे इति भावः । कठोरितकुठारवा ललितशूल्या बाहया रणङ्डमरया स्फुरद्धरणया सखट्वाङ्गया चलाभिरचलाभिरप्यगणिताभिरुन्नृत्यत- श्चतुर्दश जगन्ति ते जय जयेत्ययुर्विस्मयम् ॥ ६ ॥ कठोरेति । हे महेश, कठोरितकुठारया कठोरितः कुठारो यस्यां सा तया । ललितं शूलं यस्यां सा तया । रणङ्डमरो यस्यां सा तया में स्फुरद्धरणया । एवंविधया बाहया जातावेकवचनम् । बाहाभिर्बाहुभिश्चलाभिश्चञ्चलाभिरचलाभिः स्थिराभिरगणिताभिर- संख्याभिः । अतिनर्तनवृत्तिभिरिति विशेष्यपदाध्याहारो बोद्धव्यः । उन्नृत्यत उच्चैर्नर्तन कु- र्वतस्ते तव चतुर्दशजगन्ति चतुर्दशभुवनानि तन्निश्ठा जना वा युवत् (1) जय जयेति न- न्दन्तो विस्यमयुः प्रापुः ।। पु (प) रत्रिपुररन्धनं विविधदैत्यविध्वंसनं पराक्रमपरम्परा अपि परा न ते विस्मयः अमर्षबलहर्षित क्षुभितवृत्तनेत्रोज्ज्वल- ज्वलज्ज्वलनहेलया शलभितं हि लोकत्रयम् ॥ ७ ॥ पुरेति । हे महारुद्र, पु(प)राणासन्यामेद्यत्वेनोत्कृष्टानां त्रयाणां पुराणां रन्धनं भस्मी- करणम् । विविधदैत्यविध्वंसनम् । इत्याद्याः परा अपि पराक्रमाणां परम्परा अपि ते वि. स्मयो न. आश्चर्यो न । हे अमर्षवलहर्षित, अमर्षचलाभ्यां कोपसामार्थ्याभ्यां हर्षितो हर्षं प्राप्तः । लोकांना भुवनानां त्रयं तव क्षुभितवृत्तनेत्रोज्ज्वलज्वलज्वलनहेलया क्षुभितं. क्षोभ- युक्त वृतं वर्तुलं यन्नेत्रं तत्सामार्थ्यादुज्ज्वल: प्रकाशमानो ज्वलन् दहन ज्वलनोऽभिस्तस्य हेलया ज्वालाविलासेन हेला विलासे-' इत्यभिधानम् । शलभितं हि शलभवत् संजातं हि । यथा शलभोऽसौ प्रविष्टो भस्मीभवति, त(टू)द्भस्मिीभूतमित्यर्थः