पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। महेश महितोऽसि तत्पुरुष पूरुषाग्रयो भवा- नघोर रिपुघोर तेऽनवमः वामदेवाञ्जलिः ।। नमः सपदिजात ते त्वमिति पञ्चरूपोऽञ्चितः प्रपञ्चय च पञ्चवृन्मम मनस्तमस्ताडय ।। ३ ।। महेशेति । हे महेश, महितोऽसि पूजितोऽसि । इन्द्रादिभिरिति शेषः । हे तत्पुरुष, तस्य परमात्मनः पुरुषो दासः तस्य संबुद्धिः। हे वामदेव, वामः सुन्दरो देवो यस्यासौ वामदेव । भवान् पुरुषेषु अग्र्यः श्रेष्ठः । हे अघोर भक्तानामभयंकर । हे अनवम न अवमस्तस्य सं- बुद्धिः । हे वामदेव तथोक्तसंबुद्धिः। अनवमश्चासौ वामदेवश्चानवमवामदेव इत्येकं पदं वा । 'वामः सव्ये प्रती दक्षिणे वाम सुन्दरे इत्यभिधानम् । ते तुभ्यमञ्जलिरस्तु। हे सपदिजात. सद्योजात, ते तुभ्यं नमः । इत्यनेन प्रकारेणाश्चितः पञ्चरूपस्त्वं पञ्चवृत् मनो बुद्धिरहंकार चित्तं चेतनम् इति पञ्चप्रकारमित्यर्थः । एवं मनोऽन्तःकरणं प्रपञ्चय विस्तारय । पञ्च- वृत् पश्चप्रकारम् । तमोमोहमहामोहताभिन्न मिति पञ्चधा भिन्नं तमोऽविद्यां ताडय नाशय। अत्र श्रुतिः- "ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम्' इति, तत्पुरुषाय विद्महे इति, "अघोरेभ्योऽथ धोरेन्यः' इति, वामदेवाय नमः' इति, सद्योजातं प्रपद्यामि' इति । रसाघनरसानलानिलवियद्विवस्वद्विधु- प्रयष्टृषु निविष्टमित्यज भजामि मूर्त्यष्टकम् । प्रशान्तमुत भीषणं भुवनमोहनं चेत्यहो वपूंषि गुणपुंषि तेऽहममात्मनोऽहंमिदे ।।४।। रसाधनेति । हे अज हे महारुद्र । 'अजा विष्णुहरच्छागाः इत्यभिधानम् । रसा पृथिवी घनरसं जलम् , अनलोऽग्निः, अनिलो वायुः, वियदाकाशम्, विवस्वान सूर्यः, विधुश्चन्द्रः . प्रयष्टा सोमयाजी, तेषु निविष्टं मूर्त्यष्टकमहं भजामि । प्रशान्तं मनोहरमुत अन्यत् भीषणं भयंकरं भुवनमोहनं भुवनशब्देन तनिष्ठो जनो लभ्यते । जनव्यामोहमहंकारमित्यर्थः । गुणपुंषि ज्ञानभक्तिवैराग्यादिगुणपूर्णादीनि वपूंषि रूपाणि चाहं भजामि । कथंभूतस्य तव । अहमात्मनः अहमित्यव्ययमहंकारवाचकम् । अहंकारस्यात्मा अभिमान्यहमात्मनः । कस्मै प्रयोजनाय अहमिदे देहादावहंममललक्षणाभिमाननिवृत्तये ॥ विमुक्तिपरमाध्वनां तव षडध्वनामास्पदं पदं निगमवेदिनो जगति वामदेवादयः कथंचिदुपशिक्षिता भगवतैव संविद्रते. वयं तु विरलान्तराः कथमुमेश तन्मन्महे ॥ ५॥