पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । सुन्दरि तव नयनाम्बुजभालकलानाथखण्डयोर्मध्ये । अन्योन्यकलहशान्त्यै मुकुटिभ्रमरावली व्यरचि ॥ २३ ॥ तव नयनवारिरुहयोः संकोचों भालचन्द्रमुद्वीक्ष्य । मा भूदिति कमलभुवा भ्रूलेखा व्यरचि किं मध्ये ॥ २४ ॥ तव निर्मलौ कपोलौ सौन्दर्यासारसुन्दराभोगौ । किं वर्णवामि सुन्दरि चुम्बनयोग्याकृती कृतिनः ॥ २५ ॥ सीमन्तिनि तव कुटिलस्निग्धायतमेचकः कटाक्ष इव । हा हन्त केशहस्तो हृदयं हस्ताद्विहस्तयति ॥ २६ ॥ युवजनमारणशीला सुन्दरि वेणीकपाणिकोपेता। तव चरममङ्गमेतत्कवयित्वा पातकी कः स्यात् ।। २७ ।। कुसुमशरनृपनिदेशात्सुतनौ चकितं नवं वयो विशति । नवसेवक इव पार्थिवसद्मनि दत्तप्रवेशोऽपि ॥ २८ ॥ शरणमिव याचमानं क्वचित्तचिद्बाल्यनङ्गेषु भ्रमति मनोजनिदेशादधिकारिणि यौवने भवति ॥ २९ ॥ कुसुमशरनृपतिशासनमभिनवसौन्दर्यसारसौभाग्यम् । युवजनमनोविनोदो जयति प्रथमं वयस्तस्याः ॥३०॥ जयति स्मितप्रकारः स्फुरदधरोपान्तविश्नमस्तस्याः कुसुमाञ्जलिरिव दत्तो नवेन वयसा रतीशाय ॥ ३१ ॥ सुन्दरिं तव सितेन स्फुरिताधरपल्लवाङ्कमिलितेन । मकरध्वजनृपहस्ते वद कस्य मनो न विक्रीतम् ॥ ३२ ॥ अङ्गं कोमलमङ्गादधरोऽधरतोऽपि चन्द्रमुखि वचनम् । वचनादपि स्मितं ते तत्कथमन्तर्भिनत्ति मम ॥ ३३ ॥ अधरदलोपरि निहितं मुक्ताचूर्णं दरस्मितं तस्याः । आस्वाद्योच्छूनमिदं मनो मम स्नेहमभिलषति ॥ ३४ ॥ सस्मितमुखमवधीरितचेलाञ्चलमीषदानतग्रीवम् । तिर्यग्विलोकयन्त्या कोऽपि कृती लक्षितः क्रियते ।। ३५ ।।