पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सुन्दरीशतकम् । अस्मिन्प्रकृतिमनोज्ञे लगा प्रायेण मान्मथी दृष्टिः । सुन्दरि यतो भवत्याः प्रतिक्षणं क्षीयते मध्यः ॥ १० ॥ यां तव गात्रे यौवनतपनरथारोहनेमिनवरेखा । सुन्दरि सैव जनानां जनयति रोमावलिभ्रान्तिम् ॥ ११॥ साररविपुरःसरीकृतयौवनमायातमभिमुखं सुतनोः । आलक्ष्यते यथेषा रोमालिच्छद्मतश्छाया ॥ १२॥ सुतनोरियप्रदेशे तिष्ठतु नवरोमराजिभुजगीती। त्रिवलित्रिसत्यरेखा वयःफणिग्राहिणाकारि॥ १३ ॥ वक्षसि सुमुखि भवत्या मनोहरं कान्तिमण्डलं जयति । आमितमभिनववयसा कामनृपादेशचक्रमिव ॥ १४ ॥ वयसा कुम्भकृतास्याः परिभ्रमत्कान्तिमण्डलच्छलतः । अअनि किमुरसि चक्रं कुचकुम्भं कर्तुकामेन ॥ १५ ॥ कृतचन्दनाङ्गरागो मदनसखः श्रीफलद्वेषी । सुन्दरि सुवर्णवर्णो वक्षोजः कीदृशो रुद्रः ॥ १६ ॥ करनखललितभुजायाः पल्लवकुसुमाभिरामलतिकायाः । अनयोर्विशेषदर्शी सुन्दरि कुसुमेषुरेवैकः ॥ १७ ॥ यस्य स्वरेण विजितः प्रिये पिकोऽभूदनप्रियः सपदिः । उपमामुपैतु शङ्खः कण्ठे तस्मिन्निधित्वेन ॥ १८ ॥ वदनमिदमृतमयमिति न तर्कितं किं तु तत्प्रमितम् । मुग्धे दग्धरतिप्रियजीवननेव प्रमाणमिह ॥ १९ ॥ इन्दोरखण्डमण्डलनिर्यत्पीयूधमृष्टरसनो यः । अधरंदलं तव सुन्दरि वर्णयितुं कल्पते यदि सः ॥ २०. सुन्दाि तव दृक्तुलनामारोढुं विकसितं सरोजेन । विधिना तदैव दत्तं परागविषतो मुखेऽस्य रजः ॥ २१ ॥ लोचनयोः श्रीभृतयोः कर्णान्तिकवासिनोः पृथुक्रमयोः अनयोस्तन्वि किमुचिता वद परहृद्यापहारिणी रीतिः ॥ २२ ॥