पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सुन्दरीशतकम् । तरुणि तरलनयनान्तं वलितग्रीवं वधूतचेलान्तम् । भवनद्वारिं विशन्त्यास्तव दृष्टं द्रष्टुमुत्कण्ठे ।। ३६ ॥ पश्यत्यसंमुखं मां मयिं पश्यति साथ संमुखीभवति । स्मरमेकतोऽवरोहैः श्रमयति कोटिद्वये मौर्वीं ॥ ३७॥ तव सुन्दरि मधुरसितमेदुरमच्चक्षुरभिमुखं चक्षुः । शरदिन्दुकिरणतुन्दिलकुमुदोन्मुखमधुपमनुहरते ॥ ३८ ॥ सुन्दरि विवृत्य दृष्टः कष्टमयाङ्गेन भुजगेन । अधरामृतेन जीवति सोऽयमुपायान्तरासाध्यः ।। ३९ ।। कुञ्चन्मृदुकरशाखाकृष्टाञ्चलकोणतिर्यगुल्लसितः । लक्षीकरोति धन्यं सुन्दरि दीर्घः कटाक्षस्ते ॥ ४० ॥ निष्ठुरपञ्जरकोषे नवसंयमित्तस्य खञ्जनस्येव । गुरुजनसमक्षमक्षिव्यापारो जयति मुग्धाक्ष्याः ॥ ४१॥ तव नयनपुण्डरीकात्प्रिये कटाक्षक्रमा विराजन्ते । विकसितविचकिलकुसुमात्कुसुमानीवावतीर्णानि ।। ४२ ॥ किंचिदुदञ्चय चञ्चलमञ्चलमचिरेण लोचनांशुकयोः सुन्दरि कर्णवत्तंसः कैरवमिन्दीवरं भवतु ॥ ४३ ॥ चक्षुरपाङ्गमपाङ्गः कर्ण कर्णोऽपि दूतिकावचनम् । अवधत्ते मम तपसामुदारसारः क्रमः सोऽयम् ॥ ४४ !! कातरनयननिवेदितनिर्दयकंदर्पवेदनातिशयम् । दृष्टं निस्वात्तमन्तः प्रियया प्रस्थानवेलायाम् ॥ ४५ ॥ संसदि सखीजनानां गोष्ठीं कर्तुं पुरः प्रवृत्तायाः। गोत्रस्खलनविलक्षं सुन्दरि मुखमीक्षणीयं ते ॥ १६ ॥ अरविन्दद्युतिशोणं लोचनकोणं सरोजाक्ष्याः । प्रणमति मय्यथ सदयं हरिहारे(?) हृदयं न विस्मरति ।। ४७ ॥ सागसि मयि मन्दपदं पश्चादेत्य स्थिते सरोजदृशम् । मुकुरं प्रदर्शयन्त्या तत्सख्यां किमिव नोपकृतम् ॥ १८ ॥