उपदेशशतकम् ।
निःक्षत्रियां न चक्रे यावद्रामो भुवं रुषा तावत् ।
आसीद्रणैकतानो विरमेदसमाप्य नारब्धम् ॥ ३२ ॥
दुहिता विदेहभर्तुर्दाशरथेर्भामिनी सीता ।
वघमाप राक्षसीनां विधेर्विचित्रा गतिर्बोध्या ॥ ३३ ॥
निगमागमैकवेत्ता द्रोणस्तप्त्वा तपोऽर्थमन्विच्छन् ।
धानुष्कवृत्तिरासीद्धर्ं चार्थं च सेवेत ॥ ३४ ॥
अधिशंभुमौलि निवसन्नेककलात्मा यथार्च्यते चन्द्रः ।
न तथा स पूर्णविम्बः श्रयेन्महान्तं महत्त्वाय ॥ ३५ ॥
शरतल्पमधिशयानाद्भीष्मादाकर्ण्य धर्मजो धर्मान् ।
दुःखं जहौ दुरन्तं प्रष्टव्याः सत्पथं वृद्धाः ।। ३६ ।।
कर्णेन घातयित्वा घटोत्कचं शक्रशक्तिनिर्मोक्षात् ।
जीवितमरक्षि पार्थैः खात्मानं सर्वतो रक्षेत् ।। ३७ ॥
पृथुकोपहारपाणिहरिं सखायं प्रपद्य दीनात्मा ।
श्रीमानभूत्सुदामा श्रयेत सन्मित्रमापत्सु ॥ ३८ ॥
दृष्ट्वा हरिः समक्षं बाणत्राणाय कोटवीं नग्नाम् ।
समरे पराङ्भुखोऽभूस्त्रियं विवस्त्रां न वीक्षेत ॥ ३९ ॥
अदिशल्लक्ष्मणहेतोर्मारुतिमानेतुमोषधीं रामः ।
तामानयत्स दूराद्धर्यः कार्ये नियोक्तव्यः ॥ ४० ॥
आराध्य कैतवज्ञो रौद्रं रुद्राद्वृको वरं लब्ध्वा ।
गौरीमियेष हर्तुं न विनीतं विश्वसेद्धूर्तम् ॥ ४१ ॥
दशकण्ठरक्षितायां लङ्कायां रक्षसामभूद्वसताम् ।
गृह वित्तबन्धुनाशो वसेन्न राष्ट्रे कुभूपाले ॥ ४२ ॥
शप्त्वाम्बरीषमार्यं दुर्वासाः कोपनो निरागस्कम् ।
चक्रेण तापितोऽभून्न विदध्यात्क्रोधमस्थाने ॥ ४३ ॥
१ कोटवी नन्ना स्त्री. तत्कथा हरिवंशे बाणासुरयुद्धे प्रसिद्धा.
२. शकुनिसूनुर्वको
नाम कश्चिदसुरः, तत्कथा श्रीमद्भागवते दशमस्कन्धेऽष्टाशीतितमेऽध्याये द्रष्टव्या.
३. भागवतादिप्रसिद्धं विष्णुभक्तं कंचिद्राजविशेषम्.